मध्यप्रदेशस्य मुख्यमन्त्री डॉ. यादवः अद्य लाञ्जी इत्यत्र ‘जनविश्वास-अभियानस्य’ अन्तर्गते प्रबुद्धजनैः सह संवादं करिष्यति
भोपालम्, २९ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य शनिवासरे बालाघाटमण्डलस्य लाञ्जी इत्यत्र ‘मुख्यमन्त्री-जनविश्वास-अभि-यानस्य’ अन्तर्गते कन्याछात्रावासस्य उत्कृष्टविद्यालयस्य च निरीक्षणं करिष्यति। उत्कृष्टविद्यालये प्रबुद्
सीएम मोहन यादव (फाइल फोटो)


भोपालम्, २९ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य शनिवासरे बालाघाटमण्डलस्य लाञ्जी इत्यत्र ‘मुख्यमन्त्री-जनविश्वास-अभि-यानस्य’ अन्तर्गते कन्याछात्रावासस्य उत्कृष्टविद्यालयस्य च निरीक्षणं करिष्यति। उत्कृष्टविद्यालये प्रबुद्धजनैः पत्रकार-प्रतिनिधिभिश्च सह संवादमपि करिष्यति।

जनसम्पर्काधिकारी अनिलपटले सूचित-वान् यत् मुख्यमन्त्री डॉ. यादवः लाञ्जी इत्यस्य समीपे स्थिते कोरका-बोंदारी-ग्रामे अपि गमिष्यति। सः एतेषु ग्रामेषु रोगपीडितपरिवारैः सह मिलिष्यति। ज्ञातव्यं यत् बालाघाटमण्डलस्य एतेषु बैगाजनजातिबहुलग्रामेषु मलेरियारोगेन, खसरा-रोगेन कुपोषणेन च गतद्विमासा-भ्यन्तरे शतशः बालकाः पीडिताः अभवन्। तेषु अद्यावधि २४ बालकानां मृत्युः अभवत्।

निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री डॉ. यादवः इन्दौरतः वायुयानेन प्रस्थाय प्रातः ९:५० वादने बिरसी-गोन्दिया-विमानपट्टिकां प्राप्स्यति। ततः प्रातः १० वादने लाञ्जीं प्रति प्रस्थास्यति। मुख्यमन्त्री डॉ. यादवः प्रातः १०:३० वादने लाञ्जीतः कोरकाग्रामं प्रति प्रस्थास्यति। सः प्रातः ११:२० वादने कोरकां प्राप्य स्थानीयकार्यक्रमे सम्मिलितः भविष्यति।

मध्याह्ने १२:२० वादने सः कोरकातः लाञ्जीं प्रति प्रस्थास्यति। लाञ्जी इत्यत्र स्थानीयकार्यक्रमे सम्मिलितः भूत्वा सः मध्याह्ने २:२५ वादने लाञ्जीतः हेलिकॉप्टरयानेन बिरसी-गोन्दिया-विमानपट्टिकां प्रति प्रस्थास्यति। मध्याह्ने २:४० वादने बिरसीं प्राप्स्यति तथा तत्रतः मध्याह्ने २:४५ वादने वायुयानेन नवदिल्लीं प्रति प्रस्थास्यति।

Hindusthan Samachar / Divya Ranjan