Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, 29 अगस्तमासः (हि.स.)।
छत्तीसगढराज्यसहकारिसङ्घमर्यादित-रायपुरस्य, बस्तरजिलासहकारिसङ्घमर्यादित-जगदलपुरस्य च क्षेत्रीयकार्यालय-इफ्को इत्यस्य संयुक्ततत्त्वावधाने सहकारिशिक्षायोजनान्तर्गतं नवनिर्मितस्य चोकर्-लैम्प्स् इत्यस्य आश्रितग्रामपञ्चायतभवने शनिवासरे सहकारिणां कृषकबन्धूनां च सहकारिशिक्षण-प्रशिक्षणकार्यक्रमः सम्पन्नः।
इफ्को-संस्थायाः क्षेत्रीयाधिकारी लालबहादुरसिंहः सहायकक्षेत्रसहायकः वैभवपाण्डेयः च इफ्को-संस्थायाः विषये विस्तरेण सूचनां दत्त्वा नैनो-यूरिया, नैनो-डीएपी, कन्सुटिया इत्यादीनां जैविक-उत्पादानां विक्रयस्य प्रयोगविधेः च विषये जानकारीं दत्तवन्तौ। तौ अवदतां यत् नैनो-डीएपी तथा नैनो-यूरिया विदेशीय-उत्पादौ न स्तः, अपितु भारतदेशस्य उत्पादौ स्तः। एतयोः साहाय्येन वर्ष २०४७ पूर्वं जैविककृष्यै कृषकाः स्वयम् आत्मानं सिद्धं कृत्वा स्वमृदमपि तदनुकूलं कर्तुं शक्नुवन्ति।
प्रशिक्षणकाले छत्तीसगढराज्यसहकारिसङ्घस्य जिलासहकारिशिक्षाप्रशिक्षकेन विवेकपाण्डेयेन सहकारितायाः अर्थः, महत्त्वं, सिद्धान्ताः च विवृण्वन् नवनिर्मितस्य चोकर्-लैम्प्स् इत्यस्य सदस्येभ्यः लैम्प्स्-संस्थया प्रदीयमानानां सेवानां, विशेषतः वित्तीयसेवा-विपणन-प्रक्रियासेवा-उपभोक्तृसेवा-उत्पादनवृद्धिसहायकविषयाणां च विषये विस्तरेण अवबोधनं कारितम्। सहकारेण समृद्धये लैम्प्स्-संस्थानां भूमिकां प्रकाशयन् सः अवदत् यत् कृषकबन्धवः किसान-क्रेडिट-कार्डस्य अन्तर्गतं फसलऋणेन सह गोपालनाय, अजापालनाय, मत्स्यपालनाय च लैम्प्स्-संस्थातः ऋणं प्राप्तुं शक्नुवन्ति।
प्रशिक्षणवर्गे लैम्प्स्-संस्थायाः प्रबन्धकेन गौतमति वारिणा किसान-क्रेडिट-कार्डस्य अन्तर्गतं ऋणसेवानां विषये विस्तरेण जानकारीं दत्त्वा कृषकाः लैम्प्स्-संस्थायाः सदस्याः भवितुं प्रेरिताः।
चोकर्-पञ्चायतस्य उपसरपञ्चेन दिनेशनागेन उक्तं यत् अयं प्रशिक्षणकार्यक्रमः कृषकाणां कृते अत्यन्तं लाभप्रदः अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani