Enter your Email Address to subscribe to our newsletters

भागलपुरम्, २९ अगस्तमासः (हि.स.)। भारतविकासपरिषदः सत्यमशाखया भागलपुरनगरे रामेश्वरलालनोपानी-सरस्वतीविद्यामन्दिरस्य परबत्तीपरिसरे शनिवासरे राष्ट्रियसमूहगान-प्रतियोगितायाः आयोजनं कृतम्। अस्यां प्रतियोगितायां दश विद्यालयानां बालकाः सहभागिनः अभवन्।
उल्लेखनीयं यत् एतदायोजनं विगतेभ्यः अनेकवर्षेभ्यः निरन्तरं प्रचलति। उद्घाटनसत्रे ‘वन्दे मातरम्’ इति गीतस्य गायनं कृतम्। तदनन्तरं भारतमातुः, विवेकानन्दस्य तथा सरस्वतीमातुः प्रतिमासु पुष्पाञ्जलिः अर्पिता। दीपप्रज्वलनं मुकेशकुमारः, रतनसंथालिया, विद्यालयस्य प्राचार्यः आकाशकुमारः, प्रवीणकुमारः, प्रदीपजालानः तथा च चाँदझुनझुनवालः इत्येतेषां संयुक्तप्रयत्नेन कृतम्।
कार्यक्रमस्य मुख्यातिथिः भागलपुर-नगरस्य विधायकः रोहितपाण्डेयः आसीत्। विशिष्टातिथिरूपेण समाजसेवी लक्ष्मीनारायणदुकनिया तथा भारत-विकासपरिषदः क्षेत्रीयसंयुक्तमहासचिवः मुकेशकुमारः उपस्थितौ आस्ताम्। अतिविशिष्टातिथिरूपेण दक्षिणबिहार-प्रान्तस्य पूर्वक्षेत्रस्य प्रान्तीयोपाध्यक्षः डॉ. रतनसंथालिया उपस्थितः आसीत्।
कार्यक्रमे निर्णायकानां भूमिकायां श्वेतासुमनः, वेदानन्दरायः तथा विश्वनाथठाकुरः आसन्। प्रतियोगितायां विद्यालयीयबालकैः हिन्दीगीतानां, संस्कृत-गीतानां तथा प्रादेशिक-भाषागीतानां गायनं कृतम्। हिन्दीगीतं संस्कृतगीतं च भारतविकास-परिषदः ‘चेतनायाः स्वराः’ इति पुस्तिकातः गीयते स्म, प्रादेशिकगीतस्य चयनं तु छात्रैः स्वयमेव कर्तव्यम् आसीत्। त्रयाणां गीतानां कृते पृथक् पृथक् सप्त निमेषाणां समयः निर्धारितः आसीत्।
प्रतियोगितायां जयपराजयस्य निर्णयार्थम् आहत्य १०० अङ्काः निर्धारिताः आसन्, ये पञ्चभागेषु विभक्ताः आसन्। हिन्दी-संस्कृतगीतयोः प्राप्ताङ्कानां आधारेण प्रथम-द्वितीय-तृतीयस्थानानां चयनं कृतम्।
प्रतियोगितायां भागलपुरस्य चौहान-पब्लिकस्कूल इत्यस्य छात्राः प्रथमस्थानं प्राप्तवन्तः तथा ते सम्मानिताः अभवन्। प्रतियोगितायां सम्मिलितेभ्यः सर्वेभ्यः छात्र-छात्राभ्यः प्रमाणपत्राणि प्रदत्तानि। चयनितप्रतिभागिषु प्रथमस्थान-प्राप्तः समूहः प्रान्तीयस्तरीयप्रतियोगितायै गयानगरं प्रेषयिष्यते।
भारतीयबालकेषु राष्ट्रियचेतनायाः, राष्ट्रियसेवायाः तथा भारतदेशं प्रति श्रद्धा-निष्ठायाः पुनर्जागरणार्थं भारतविकास-परिषदा एषा प्रतियोगिता आयोज्यते। अस्यां प्रतियोगितायां समग्रभारतस्य १६०० शाखानां माध्यमेन प्रायः एकलक्ष-विद्यालयेभ्यः ३० लक्षं विद्यार्थी सहभागिनः भविष्यन्ति।
Hindusthan Samachar / Divya Ranjan