Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २९ अगस्तमासः (हि.स.)। कांग्रेसदलस्य राष्ट्रियाध्यक्षः राज्यसभायां विपक्षनेता च मल्लिकार्जुनखरगे नेपालदेशे विनाशकारिण्या जलौघेन उत्पन्नानां परिस्थितीनां विषये प्रधानमन्त्रिणे नरेन्द्रमोदिने केन्द्रीय-गृहमन्त्रिणे अमितशाहाय च द्वे पत्रे लिखितवान्। प्रधानमन्त्रिणे लिखिते पत्रे सः भारतीयनागरिकाणां भारतीयमूलस्य जनानां च सुरक्षितप्रत्यावर्तनाय त्वरित-पदानि स्वीकर्तुं तथा प्रभावितेभ्यः नेपालीजनेभ्यः मानवीयां सहायतां च प्रदातुम् आग्रहं कृतवान्। अपरस्मिन् गृहमन्त्रिणे लिखिते पत्रे सः नेपालसर्वकारेण सह समन्वयं कृत्वा आवश्यकतानुसारं राष्ट्रिय-आपदा-मोचनबलस्य दलानि प्रेषयितुं तथा उद्धार-निष्कासन-सहायताभियानेषु सहयोगं प्रदातुं आग्रहं कृतवान्।
प्रधानमन्त्रिणे नरेन्द्रमोदिने शुक्रवासरे लिखिते पत्रे खरगेण नेपालदेशे जलौघेन जातस्य विध्वंसस्य विषये गम्भीरा चिन्ता प्रकटिता। सः अवदत् यत् माध्यम-प्रतिवेदनानुसारं जलौघेन पञ्च-शताधिकानां जनानां मृत्युः अभवत् तथा च प्रायः सहस्रं जनाः अद्यापि विलुप्ताः सन्ति। सः अवदत् यत् अस्याः आपदायाः कारणेन सहस्रशः जनाः भोजनं, औषधानि, आश्रयं च इत्यादीनि मूलभूतसुविधाः प्राप्तुं वञ्चिताः सन्ति।
मल्लिकार्जुनखरगे प्रधानमन्त्रिणः आग्रहं कृतवान् यत् नेपालसर्वकारेण सह समन्वयं कृत्वा प्रभावितेभ्यः जनभ्यः पर्याप्तां मानवीयां सहायतां च प्रदातुं सुनिश्चितं क्रियताम्। अस्मिन् कठिनसमये नेपालस्य जनानां सर्वसम्भवा सहायता प्रदातव्या इति सः उक्तवान्।
नेपालदेशे अवरुद्धानां भारतीय-नागरिकाणां भारतीयमूलस्य जनानां च विषये अपि सः चिन्तां प्रकटितवान्। पत्रे उक्तं यत् बाढया भारतीयनागरिकाः भारतीयमूलस्य जनाश्च नेपालस्य विभिन्नेषु भागेषु अवरुद्धाः सन्ति। खर्गेण सम्बन्धिताधिकारिभ्यः आवश्यकनिर्देशान् प्रदाय उद्धारस्य सुरक्षितनिष्कासनस्य च प्रयासान् त्वरितं कर्तुम् आग्रहः कृतः।
मल्लिकार्जुनखर्गेः अवदत् यत् अवरुद्धानां भारतीयनागरिकाणां भारतीयमूलस्य जनानां च सुरक्षितं शीघ्रतमं च भारतप्रत्यावर्तनं सुनिश्चितं कर्तुं सर्वाणि आवश्यकप्रबन्धनानि करणीयानि। विदेशमन्त्रालयेन उपलब्धीकृतां सूचनां निर्दिश्य सः अवदत् यत् नेपालदेशे त्रिशताधिकैः भारतीयनागरिकैः सह सम्पर्कः स्थापितुं न शक्नोति।
अपरतः गृहमन्त्रिणे अमितशाहाय लिखिते पृथक् पत्रे खर्गेण नेपालदेशे बाढया बृहत्प्रमाणेन जनानां प्रभावितत्वं, गृहाणां मूलभूतसंरचनायाः च क्षतिः तथा जनानां विस्थापनं च उल्लिखितम्। सः अवदत् यत् भारत-नेपालयोः जनानां मध्ये गाढाः स्थायिनश्च सम्बन्धाः सन्ति। अतः अस्मिन् सङ्कटकाले भारतं नेपालस्य जनैः सह दृढतया स्थातव्यम्।
मल्लिकार्जुनखरगे गृहमन्त्रिणः नेपालाय त्वरितां व्यापकां च मानवीयां आपदाराहतसहायतां प्रदातुं विचारयितुम् आग्रहं कृतवान्। सः विशेषतः अवदत् यत् नेपालसर्वकारेण सह समन्वयं कृत्वा यत्र यत्र आवश्यकता भवेत्, तत्र एनडीआरएफ-दलानि प्रेषणीयानि।
सः अवदत् यत् एनडीआरएफ-बले प्राकृतिकापदां सम्मुखीकर्तुं तथा सहायता-उद्धार-अभियानं सञ्चालयितुं विशेषज्ञता अनुभवश्च अस्ति। अतः तस्य दलानि नेपालदेशे उद्धारकार्ये, जनानां सुरक्षितनिष्कासने तथा सहायताकार्येषु महत्त्वपूर्णं सहयोगं प्रदातुं शक्नुवन्ति।
मल्लिकार्जुनखर्गेः गृहमन्त्रिणे अवदत् यत् नेपालदेशे उत्पन्नां परिस्थितिं दृष्ट्वा भारतसर्वकारेण अस्य मानवीयसङ्कटस्य गम्भीरताम् तात्कालिकतां च दृष्ट्वा कार्यं कर्तव्यम्। प्रभावितजनानां समीपं भारतस्य पक्षतः आवश्यकसहायता प्रापयितुं त्वरितपदानि स्वीकरणीयानि।
Hindusthan Samachar / Divya Ranjan