प्रधानमंत्री 'राष्ट्रीय खेल दिवसस्य' देशवासिभ्योऽददात् शुभकामनाः
नवदिल्ली, 29 अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदिना शनिवासरे ‘राष्ट्रियक्रीडादिवसस्य’ अवसरे सर्वेभ्यः क्रीडाप्रेमिभ्यः हार्दिकाः शुभकामनाः प्रदत्ताः। प्रधानमन्त्रिणा मोदिना सामाजिकसञ्चारमाध्यमस्य ‘एक्स’ इत्यत्र उक्तम्, “क्रीडकानां समर्पणं
प्रतीकात्मक


नवदिल्ली, 29 अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदिना शनिवासरे ‘राष्ट्रियक्रीडादिवसस्य’ अवसरे सर्वेभ्यः क्रीडाप्रेमिभ्यः हार्दिकाः शुभकामनाः प्रदत्ताः।

प्रधानमन्त्रिणा मोदिना सामाजिकसञ्चारमाध्यमस्य ‘एक्स’ इत्यत्र उक्तम्, “क्रीडकानां समर्पणं, उत्साहः, दृढसङ्कल्पश्च सम्पूर्णं देशं गौरवान्वितं कुर्वन्ति। वयं महान् क्रीडकं मेजरध्यानचन्दं प्रति अपि श्रद्धाञ्जलिं समर्पयामः, यस्य प्रतिभा पिढीभ्यः पिढीं यावत् प्रेरणां प्रदास्यति।”

उल्लेखनीयं यत् अयं दिवसः मेजरध्यानचन्दस्य जन्मदिवसस्य (२९ अगस्त १९०५) उपलक्ष्ये आयोज्यते। तेन १९२८, १९३२ तथा १९३६ तमेषु ओलम्पिकक्रीडास्पर्धासु भारताय स्वर्णपदकप्राप्तौ महत्त्वपूर्णं योगदानं कृतम्।

केन्द्रसर्वकारेण अस्य दिवसस्य आधिकारिकरूपेण प्रथमवारं २०१२ तमे वर्षे क्रीडादिवसरूपेण आचरणस्य घोषणा कृता आसीत्।

अस्मिन् दिवसे सम्पूर्णे देशे क्रीडायाः शारीरिकस्वास्थ्यस्य च प्रति जनजागरूकता वर्ध्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani