Enter your Email Address to subscribe to our newsletters

नवसारी, २९ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अग्रिमे ८ सितम्बरमासे २०२६ दिनाङ्के मङ्गलवासरे गुजरातस्य नवसारी-जनपदस्य यात्रां करिष्यति। प्रधानमन्त्री अपराह्णे द्विवादने ग्रिड्-राजमार्गे स्थितस्य नवनिर्मितस्य भारतीयजनतापक्षस्य ‘कमलम्’ इति कार्यालयस्य लोकार्पणं करिष्यति।
प्रधानमन्त्रिणः प्रस्तावितयात्रायाः सज्जतां प्रति केन्द्रीयजलशक्तिमन्त्री सी. आर. पाटीलस्य विशेषोपस्थितौ अध्यक्षतायां च उच्चस्तरीया समीक्षासभा आयोजिता। सभायां प्रधानमन्त्रिणः यात्रां प्रति क्रियमाणानां सज्जतानां विस्तृततया समीक्षा कृता।
सभायां जनपदप्रशासनस्य पुलिस्-अधिकारिभिः सह सुरक्षाव्यवस्था, राजमार्गस्य स्वच्छता, सभास्थलम्, वाहनस्थापनव्यवस्था तथा कार्यक्रम-स्थलस्य सज्जता इत्यादिविषयेषु विस्तरेण चर्चा कृता। प्रधानमन्त्रिणः यात्राकाले ‘स्वच्छता हि सेवा’ तथा ‘जलसञ्चयः’ इत्येताभ्यां सम्बद्धेषु जन-कल्याण-कार्यक्रमेष्वपि विशेषं बलं प्रदास्यते। केन्द्रीयमन्त्री सी. आर. पाटीलेन प्रधानमन्त्रिणः भव्यस्वागतसहितं सम्पूर्णं लोकार्पणकार्यक्रमं सुव्यवस्थितरूपेण सफलतया च सम्पन्नं कर्तुं अधिकारिभ्यः आवश्यकाः निर्देशाः प्रदत्ताः।
सभायां वित्तमन्त्री तथा प्रभारीमन्त्री कनुभाईदेसाई, आदिवासीविकासस्य खादी-ग्रामोद्योगस्य च मन्त्री नरेश-भाईपटेलः, विधायकौ राकेश-भाईदेसाई तथा संगीता पाटील, सङ्घटनाध्यक्षः भूराभाई, जनपदाधीशः मनीषगुरवानी, जनपदविकासाधिकारी कार्तिकजीवाणी, आरक्षक-अधीक्षकः राहुलपटेलः इत्यादयः विभिन्नविभागानां वरिष्ठाधिकारिणश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan