भारतीयगुणवत्तायाः परीक्षणसुविधानां च वैश्विकविश्वासः वर्धितः - प्रल्हादजोशी
बेङ्गलूरु:, २९ अगस्तमासः (हि.स.)। केन्द्रीय उपभोक्तृकार्याणां मन्त्री प्रल्हादजोशी अवदत् यत् भारतस्य परीक्षणसुविधानां, मानकानां गुणवत्तायाश्च अद्य विश्वस्य बहुषु देशेषु मान्यता प्राप्यते। राष्ट्रियपरीक्षणगृहेण (एनटीएच) वैश्विक-स्तरे विश्वसनीयता प्र
मंत्री जोशी ने नेशनल टेस्टिंग एजेंसी की नई इमारत का उद्घाटन करने के बाद बात की।


बेङ्गलूरु:, २९ अगस्तमासः (हि.स.)। केन्द्रीय उपभोक्तृकार्याणां मन्त्री प्रल्हादजोशी अवदत् यत् भारतस्य परीक्षणसुविधानां, मानकानां गुणवत्तायाश्च अद्य विश्वस्य बहुषु देशेषु मान्यता प्राप्यते। राष्ट्रियपरीक्षणगृहेण (एनटीएच) वैश्विक-स्तरे विश्वसनीयता प्राप्ता अस्ति तथा च बहवः देशाः भारतीयप्रयोगशालानां परीक्षणसेवासु विश्वासं कुर्वन्ति।

शनिवासरे बेङ्गलूरुनगरे राष्ट्रिय-परीक्षणगृहस्य नवनिर्मितस्य भवनस्य उद्घाटनं कुर्वन् जोशी अवदत् यत् संस्थानं प्रति अन्ताराष्ट्रियविश्वासः निरन्तरं वर्धमानः अस्ति। श्रीलङ्कातः, दुबईतः, भूटानात् च सहितेभ्यः विभिन्नेभ्यः देशेभ्यः परीक्षणार्थं नमूनानि एनटीएच-प्रति प्रेष्यन्ते। एतत् संस्थानस्य वैश्विकस्तरे प्रमुखपरीक्षणसंस्था भवितुं क्षमतां दर्शयति।

सः अवदत् यत् भारतस्य परीक्षण-व्यवस्थायाः विश्वसनीयतायां वृद्धिं सति देशस्य वर्धमानस्य विनिर्माणक्षेत्रस्य निर्यातक्षेत्रस्य च आवश्यकतानां पूर्तये अत्याधुनिकपरीक्षणसुविधानां अधिकं सुदृढीकरणम् आवश्यकम् अस्ति। उत्पादकेभ्यः, सूक्ष्मेभ्यः, लघुभ्यः, मध्यमेभ्यः उद्यमेभ्यः, नवोद्यमेभ्यः औद्योगिकक्षेत्राय च एनटीएच-द्वारा विश्वस्तरीयं परीक्षणाधार-भूतसंरचनां प्रदातुं प्रभावी भूमिका निर्वोढव्या।

जोशी अवदत् यत् प्रधानमन्त्रिण: नरेन्द्रमोदिनः नेतृत्वे भारतं मापनविज्ञानस्य क्षेत्रे महत्त्वपूर्णाम् उपलब्धिं प्राप्तवान् अस्ति। भारतस्य मापनमानकानां वैश्विकस्तरे मान्यता प्राप्यते तथा च बहवः देशाः तानि स्वीकुर्वन्ति। एषा भारतस्य क्षमतायाः, विश्वसनीयतायाः वैश्विकनेतृत्वस्य च परिचायिका महत्त्वपूर्णा उपलब्धिः अस्ति। सः अवदत् यत् सौरजलतापकयन्त्राणां परीक्षणात् आरभ्य रक्षाउत्पादानां निर्यातपर्यन्तं तथा निजी-अन्तरिक्ष-प्रक्षेपणपर्यन्तं देशस्य विनिर्माण-क्षमता तीव्रगत्या वर्धमाना अस्ति। अतः डिजाइननिर्माणात् उत्पादनं परीक्षण-प्रक्रियाः च भारतदेशे एव सञ्चाल्येरन्, एतदर्थं सुदृढव्यवस्थायाः विकासः आवश्यकः अस्ति।

सः अवदत् यत् नूतनकेन्द्राणां उन्नतपरीक्षणसुविधानां च माध्यमेन उपभोक्तृभ्यः, सूक्ष्मेभ्यः, लघुभ्यः, मध्यमेभ्यः उद्यमेभ्यः, नवोद्यमेभ्यः उद्योगेभ्यश्च विश्वस्तरीयम् आधारभूतसंरचनं प्राप्यते। भारतीयउत्पादानां गुणवत्तां विश्वसनीयतां च वर्धयितुं ‘शून्यदोषः, न्यूनतम-पर्यावरणीयप्रभावः’ इत्यस्य अवधारणायाः आधारेण कार्यं क्रियते। विनिर्माणस्य, उद्योगस्य निर्यातस्य च क्षेत्रेषु नूतनाः अवसराः जायमानाः सन्ति, अतः देशस्य आन्तरिकपरीक्षणक्षमतायाः विस्तारः समयस्य आवश्यकता अस्ति।

अस्मिन् अवसरे देशस्य विभिन्नेषु भागेषु स्थापिताः अनेकाः उन्नतपरीक्षणसुविधाः देशाय समर्पिताः। भारतस्य गुणवत्तायाः परीक्षणव्यवस्थायाः च सुदृढीकरणे योगदानं दत्तवद्भ्यः वैज्ञानिकेभ्यः, अभियन्तृभ्यः व्यावसायिकेभ्यश्च वार्षिक-उत्कृष्टतापुरस्काराः प्रदाय सम्मानिताः।

कार्यक्रमे केन्द्रीयराज्यमन्त्री बी. एल. वर्मा, शोभा करन्दलाजे इत्यादयः बहवः गणमान्यजनाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan