रामकृष्णहेगडे दूरदर्शी नेता संस्थानां नेतॄणां च निर्मातारः आसन् - उपराष्ट्रपतिः
बेङ्गलूरुः, २९ अगस्तमासः (हि.स.)। कर्नाटकस्य पूर्वमुख्यमन्त्री दिवङ्गतः रामकृष्णहेगडे महान् राजनेता, राष्ट्रवादी कुशलनेता च आसीत्। सः अनेकान् नेतॄन् निर्मातुं सह संस्थानां निर्माणेऽपि महत्त्वपूर्णं योगदानं दत्तवान्। तस्य नेतृत्वे कर्नाटकं सुशासनस्य
उपराष्ट्रपति ने दिवंगत रामकृष्ण हेगड़े की तस्वीर पर श्रद्धांजलि अर्पित की।


बेङ्गलूरुः, २९ अगस्तमासः (हि.स.)। कर्नाटकस्य पूर्वमुख्यमन्त्री दिवङ्गतः रामकृष्णहेगडे महान् राजनेता, राष्ट्रवादी कुशलनेता च आसीत्। सः अनेकान् नेतॄन् निर्मातुं सह संस्थानां निर्माणेऽपि महत्त्वपूर्णं योगदानं दत्तवान्। तस्य नेतृत्वे कर्नाटकं सुशासनस्य एकम् आदर्शं जातम्। इति उपराष्ट्रपतिः सी. पी. राधाकृष्णन् उक्तवान्।

बेङ्गलूरुनगरस्य विधानसौधे आयोजिते रामकृष्णहेगडे-जन्मशताब्दीसमारोहे सम्मिलितः सः हेगडेमहोदयस्य राजनैतिकं सार्वजनिकं च जीवनं स्मृतवान्। सः अवदत् यत् रामकृष्णहेगडे केवलं राजनैतिकनेता नासीत्, अपि तु संस्थानां नूतनवंशस्य नेतॄणां च निर्माता आसीत्।

उपराष्ट्रपतिः अवदत्— “महान्तः नेतारः एकं क्षणं परिवर्तयितुं शक्नुवन्ति, किन्तु महतां संस्थानां निर्मातारः पीढीन् परिवर्तयन्ति।” हेगडेमहोदयस्य सार्वजनिकजीवनं तस्य योगदानं च एतादृशेनैव दृष्टिकोणेन द्रष्टव्यम्।

सः अवदत् यत् हेगडेमहोदयस्य सत्यता, साहसं जनसेवां प्रति प्रतिबद्धता च अद्यतनयुववंशाय प्रेरणादायिनी अस्ति। युवभिः तस्य आदर्शाः स्वजीवने आचरणीयाः तथा ‘राष्ट्रं प्रथमम्’ इत्यस्य भावनया अग्रे गन्तव्यम्। हेगडेमहोदयस्य मूल्यानाम् आदर्शानां च संवर्धनमेव तस्य विरासतायै सच्चा श्रद्धाञ्जलिः भविष्यति।

समारोहे कर्नाटकस्य मुख्यमन्त्री डी. के. शिवकुमारः, पूर्वोपष्ट्रपतिः एम्. वेङ्कय्या-नायडुः, केन्द्रीयमन्त्री प्रल्हादजोशी, पूर्वमुख्यमन्त्री सिद्धरामय्यः इत्यादयः रामकृष्णहेगडेमहोदयस्य परिवारस्य सदस्याः, मित्राणि तथा च बहवः गणमान्यजनाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan