Enter your Email Address to subscribe to our newsletters





- 666 क्रीडकेभ्यों एवं प्रशिक्षकेभ्यश्च अमिलत् 1.74 कोटितः अधिकस्य पुरस्कारः एवं प्रोत्साहनराशिः
रायपुरम्, 29 अगस्तमासः (हि.स.)।
मुख्यमन्त्री विष्णुदेवसायः हॉकीक्रीडायाः जादूगरस्य मेजर् ध्यानचन्दस्य जयन्त्याः राष्ट्रियक्रीडादिवसस्य च अवसरे अद्य शनिवासरे राजधानीरायपुरस्य पण्डितदीनदयाल-उपाध्याय-सभागारे आयोजिते राज्यक्रीडासम्मानसमारोहे प्रदेशस्य क्रीडाप्रतिभाभ्यः सम्मानं प्रदत्तवान्।
मुख्यमन्त्री श्रीसायः वर्ष २०२३-२४, २०२४-२५ तथा २०२५-२६ कृते १२६ उत्कृष्टक्रीडकानां प्रशिक्षकाणां च राज्यक्रीडासम्मानं प्रदत्तवान्। समारोहे राज्यक्रीडासम्मानप्राप्तेभ्यः क्रीडकेभ्यः प्रशिक्षकेभ्यः च सह ५४० अन्येभ्यः क्रीडकेभ्यः अपि नगदप्रोत्साहनराशिः प्रदत्ता। एवं समग्रतया ६६६ क्रीडकानां प्रशिक्षकाणां च कृते १ कोटिः ७४ लक्षं १९ सहस्ररूप्यकाणां पुरस्कारप्रोत्साहनराशिः प्रदत्ता।
राज्यक्रीडासम्मानसमारोहे छत्तीसगढस्य गौरवशालीक्रीडेतिहासं क्रीडकानां उपलब्धीः च केन्द्रितां छायाचित्रप्रदर्शनीम् अवलोकितवान् तथा ‘अस्माकं क्रीडकाः’ इति शीर्षकस्य कॉफी टेबल् पुस्तकस्य विमोचनं कृतवान्।
मुख्यमन्त्री श्रीसायः समारोहे क्रीडकान् सम्मानयन् तेषां उज्ज्वलभविष्यस्य कामनां कृतवान्। सः अवदत् यत् क्रीडाङ्गणे क्रीडकस्य परिश्रमः, अनुशासनं संघर्षश्च केवलं तस्य व्यक्तिगतसिद्धिपर्यन्तं सीमितः न भवति, अपितु तस्य सफलतया सम्पूर्णस्य प्रदेशस्य देशस्य च गौरवं वर्धते। छत्तीसगढस्य क्रीडकाः राष्ट्रियेषु अन्तरराष्ट्रीयेषु च मञ्चेषु निरन्तरं स्वप्रतिभायाः परिचयं ददति। राज्यसर्वकारस्य प्रयासः अस्ति यत् प्रतिभाशालिनः क्रीडकाः संसाधनानाम् अवसरानां च अभावात् पश्चात् न तिष्ठेयुः।
समारोहे उपमुख्यमन्त्री तथा क्रीडा-युवकल्याणमन्त्री अरुणसावः, केन्द्रीय-आवासन-नगरीयकार्यराज्यमन्त्री तोखनसाहुः, संस्कृतिमन्त्री राजेशअग्रवालः, तकनीकीशिक्षामन्त्री गुरुखुशवन्तसाहेबः, सांसद् बृजमोहनअग्रवालः तथा विजयबघेलः विशिष्टातिथिरूपेण सम्मिलिताः।
मुख्यमन्त्री श्रीसायः अवदत् यत् राज्यसर्वकारः छत्तीसगढे क्रीडानां क्रीडकानां च उन्नयनाय पञ्च मिशन इत्येतानि आधारीकृत्य कार्यं करोति। एतेषु मुख्यमन्त्री-क्रीडोत्कर्ष-मिशनम् अपि अन्तर्भवति। अस्य कृते १०० कोटिरूप्यकाणां बजटस्य प्रावधानं कृतम् अस्ति।
उपमुख्यमन्त्री तथा क्रीडा-युवकल्याणमन्त्री अरुणसावः समारोहं सम्बोधयन् अवदत् यत् छत्तीसगढस्य भौगोलिकविविधता विभिन्नक्रीडानां कृते अनुकूलाऽस्ति। प्रदेशे क्रीडाप्रतिभानां कश्चित् अभावः नास्ति। आवश्यकता एतासां प्रतिभानां परिचयं कृत्वा तासां विकासस्य अग्रे गमनस्य च पर्याप्तावसरान् प्रदातुम् अस्ति।
केन्द्रीय-आवासन-नगरीयकार्यराज्यमन्त्री तोखनसाहुः अवदत् यत् हॉकीक्रीडायाः जादूगरः मेजर् ध्यानचन्दः स्वक्रीडया भारतदेशं विश्वे गौरवान्वितवान्। अद्य तस्य पदचिह्नेषु गच्छन्तः छत्तीसगढस्य पुत्राः पुत्र्यश्च विभिन्नासु क्रीडासु प्रदेशस्य देशस्य च नाम गौरवान्वयन्ति।
सांसद् बृजमोहनअग्रवालः अवदत् यत् आगामिषु वर्षेषु छत्तीसगढस्य क्रीडकानां पुरतः अनेकानि महत्त्वपूर्णानि अवसरानि सन्ति। सः विश्वासं प्रकटितवान् यत् प्रदेशस्य क्रीडकाः राष्ट्रमण्डलक्रीडासु तथैव ओलम्पिक्-एशियाई-क्रीडासु च पदकानि जित्वा छत्तीसगढस्य राजदूताः भविष्यन्ति तथा राज्यस्य गौरवं वर्धयिष्यन्ति।
त्रिवर्षाणां उत्कृष्टक्रीडकानां प्रशिक्षकाणां च सम्मानम्— राज्यक्रीडासम्मानसमारोहे वर्ष २०२३-२४, २०२४-२५ तथा २०२५-२६ इत्येतयोः उत्कृष्टक्रीडकाः प्रशिक्षकाश्च विभिन्नेषु वर्गेषु सम्मानिताः। एतेषु शहीदराजीवपाण्डेयपुरस्कारः, शहीदकौशलयादवपुरस्कारः, वीरहनुमानसिंहपुरस्कारः, शहीदपंकजविक्रमसम्मानः, शहीदविनोदचौबेसम्मानः तथा मुख्यमन्त्री-ट्रॉफी इत्यादयः सम्मिलिताः सन्ति।
वर्ष २०२३-२४—
शहीदराजीवपाण्डेयपुरस्कारः – कु. मोनिकासाहू (तलवारक्रीडा), सुभाषलहरे (भारोत्तोलनम्), अनुपयदुः (नेटबॉल्), राजेशराठौरः (नेटबॉल्), भूपेन्द्रकुमारगढे (सॉफ्टबॉल्) तथा परमानन्दः (पैरा-तरणम्)।
शहीदकौशलयादवपुरस्कारः – दिपांशिनेताम् (तलवारक्रीडा), महेन्द्रधुर्वे (वॉलीबॉल्), अमितकुमारः (धावन-क्रीडा) तथा राकेशकडती (सॉफ्टबॉल्)।
वीरहनुमानसिंहपुरस्कारः – विकासढीढी (पैरा-जूडो)।
शहीदपंकजविक्रमसम्मानः – कु. सीतासाहू (पैरा-व्हीलचेयर्-तलवारक्रीडा), करणभारती (वुशू), प्रियंकाठाकुरः (वुशू), शशांकमसीहः (राइफल्-शूटिंग्), राजीवसाहू (टेबल्-टेनिस्), कु. काजल (टेबल्-टेनिस्), कु. भूमिकाउपाध्याय (हॉकी) तथा अजिंक्यसिंहः (तरणम्)।
शहीदविनोदचौबेसम्मानः – प्रवेशचड्ढा (शूटिंग्), विजयबहादुरः (हैण्डबॉल्), लक्ष्मणलालसाहू (मल्लयुद्धम्), के. रविशंकरः (टेबल्-टेनिस्) तथा गिरिराजबागडी (टेबल्-टेनिस्)।
मुख्यमन्त्री-ट्रॉफी – वरिष्ठवर्गे बिलासपुरस्य पैरा-व्हीलचेयर्-तलवारक्रीडादलम्।
वर्ष २०२४-२५—
शहीदराजीवपाण्डेयपुरस्कारः – कु. ज्ञानेश्वरीयादव (भारोत्तोलनम्), ईशानभटनागरः (बैडमिण्टन), दिव्यांशुनेताम् (तलवारक्रीडा), कु. भूमिगुप्ता (तरणम्), कु. सोनमशर्मा (नेटबॉल्), कलारामपटेलः (पैरा-धावनक्रीडा) तथा लोमेन्द्रसाहुः।
शहीदकौशलयादवपुरस्कारः – मानस भट्टाचार्यः (बैडमिण्टन) तथा सुखदेवः (पैरा-धावनक्रीडा)।
वीरहनुमानसिंहपुरस्कारः – अशोककुमारसाहू (कयाकिङ्ग् एवं कैनोइङ्ग्)।
शहीदपंकजविक्रमसम्मानः – कु. सुमनयादव (पादकन्दुकक्रीडा), रोहितरजकः (हॉकी), कु. गीतांजलिनिर्मलकरः (हॉकी), के. एस्. साईप्रशान्तः (टेबल्-टेनिस्), कु. सुष्मितासोम (टेबल्-टेनिस्), रामकृष्णसाहू (पैरा-तरणम्), स्वातिसाहू (पैरा-व्हीलचेयर्-तलवारक्रीडा), साकेतसामुएलः (राइफल्-शूटिंग्), अमनतिवारी (वुशू) तथा कु. मानसीडुंभरे (वुशू)।
शहीदविनोदचौबेसम्मानः – प्रभाहुसैन (धावनक्रीडा), संगीता राजगोपालन (बैडमिण्टन), गामायादव (मल्लयुद्धम्) तथा प्रणयनन्दमजूमदारः (टेबल्-टेनिस्)।
मुख्यमन्त्री-ट्रॉफी – वरिष्ठमहिलावर्गे बिलासपुरस्य धनुर्विद्यादलम्।
वर्ष २०२५-२६—
शहीदराजीवपाण्डेयपुरस्कारः – विकासकुमारः (धनुर्विद्या), किरणपिस्दा (पादकन्दुकक्रीडा), दीपांशिनेताम् (तलवारक्रीडा), सुजेयतम्बोली (बैडमिण्टन), आयुषमाखिजा (बैडमिण्टन), संजुदेवी (कबड्डी), रीमाराय (सॉफ्ट-टेनिस्), मिशाकुमारी (नेटबॉल्) तथा लक्कीयादव (पैरा-धावनक्रीडा)।
शहीदकौशलयादवपुरस्कारः – दिव्यांशुदेवांगनः (शूटिंग्), विक्रमाराजः (धनुर्विद्या), दिव्यांशअग्रवालः (बैडमिण्टन), सोनिकाराजवाडे (धावनक्रीडा), स्वप्निलप्रधानः (वुशू), भूमिकाचौधरी (नेटबॉल्), पूजा (नेटबॉल्) तथा निखिलकुमारयादवः (पैरा-धावनक्रीडा)।
वीरहनुमानसिंहपुरस्कारः – अजयदीपसारंगः (भारोत्तोलनम्)।
शहीदपंकजविक्रमसम्मानः – संस्कारदिवानः (वुशू), विद्यसिंहः (वुशू), अंकुशसिंहः (खो-खो), झमितासाहू (खो-खो), हेमशिखरः (वॉलीबॉल्), अरन्दिमदेवनाथः (टेबल्-टेनिस्), स्नेहान्योगी (जूडो), अनमोलसिंहः (जूडो), यशकेरकेट्टा (मुष्टियुद्धम्), टुकेशसाहू (जिम्नास्टिक्), सेमेश्वरसिंहः (पैरा-तरणम्), श्रीकान्तपाण्डे (पैरा-जूडो) तथा खुशालयादवः (हॉकी)।
शहीदविनोदचौबेसम्मानः – गंगेश्वरः (धावनक्रीडा), ख्वाजाअहमदः (वॉलीबॉल्), एवनकुमारजैनः (भारोत्तोलनम्), मो. अकरमखानः (वॉलीबॉल्) तथा प्रदीपजोशी (टेबल्-टेनिस्)।
मुख्यमन्त्री-ट्रॉफी – धनुर्विद्यायाः वरिष्ठमहिलादलं तथा सॉफ्ट-टेनिसस्य कनिष्ठबालिकादलम्।
समारोहे विधायकाः, निगम-मण्डलस्य पदाधिकारिणः, छत्तीसगढ-ओलम्पिक्-सङ्घस्य अध्यक्षः डॉ. विक्रमसिसोदिया, विभिन्नक्रीडासङ्घानां पदाधिकारिणः, क्रीडकाः प्रशिक्षकाश्च उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani