संस्कृतमहोत्सवः - २०२६ - दिल्लीविश्वविद्यालये अद्य संस्कृतस्य संस्कृतेश्च भव्यं मञ्चं सज्जितं भविष्यति, मन्त्री कपिलमिश्रः मुख्यातिथिः
नवदिल्ली, ३० अगस्तमासः (हि.स.)। दिल्लीविश्वविद्यालयस्य वन्देमातरम्-सभागारे अद्य ‘संस्कृतमहोत्सवः-२०२६’ आयोज्यते। अयं कार्यक्रमः दिल्ली-संस्कृत-अकादम्या, कला-संस्कृति-भाषाविभागेन तथा संस्कृतभारती-दिल्ली-प्रान्तेन च संयुक्ततत्त्वावधानेन आयोज्यते। का
Sanskrit-Mahotsav-2026-DU


नवदिल्ली, ३० अगस्तमासः (हि.स.)। दिल्लीविश्वविद्यालयस्य वन्देमातरम्-सभागारे अद्य ‘संस्कृतमहोत्सवः-२०२६’ आयोज्यते। अयं कार्यक्रमः दिल्ली-संस्कृत-अकादम्या, कला-संस्कृति-भाषाविभागेन तथा संस्कृतभारती-दिल्ली-प्रान्तेन च संयुक्ततत्त्वावधानेन आयोज्यते।

कार्यक्रमः आयोज्यमानस्य ‘संस्कृत-सप्ताहस्य’ समापनसमारोहत्वेन आयोजितः भवति। संस्कृतभारतीद्वारा प्रतिवर्षं संस्कृतसप्ताहः आयोज्यते। अस्मिन् वर्षे सप्ताहपर्यन्तं सञ्चालितानां विविधकार्यक्रमाणां समापनावसरे अयं महोत्सवः संस्कृतभाषायाः, भारतीयज्ञान-परम्परायाः सांस्कृतिकचेतनायाश्च सङ्गमरूपेण आयोज्यते।

कार्यक्रमः दिल्लीविश्वविद्यालयस्य कला-संकाये स्थिते वन्देमातरम्-सभागारे अपराह्णे द्विवादनतः प्रारभ्स्यते।

समारोहे दिल्लीसर्वकारस्य कला-संस्कृति-भाषामन्त्री कपिलमिश्रः मुख्या-तिथिरूपेण उपस्थितः भविष्यति। संस्कृत-भारत्याः अखिलभारतीय-सङ्घटनमन्त्री जयप्रकाशगौतमः मुख्यवक्ता-रूपेण उपस्थितः भविष्यति। संस्कृतभारत्याः उत्तरक्षेत्रीयाध्यक्षः प्रो. यशवीरसिंहः विशिष्टातिथिरूपेण उपस्थितः भविष्यति। समारोहोऽयं केन्द्रीयसंस्कृत-विश्व-विद्यालयस्य, नवदिल्ली, कुलपतिन: प्रो. श्रीनिवासवरखेडीमहोदयस्य आध्यक्षे सम्पन्न: भविष्यति।

आयोजनस्य अवधौ संस्कृतस्य भारतीयसंस्कृतेश्च विविधदृश्यसम्बद्धाः सांस्कृतिककार्यक्रमाः विशेषाकर्षणस्य केन्द्रं भविष्यन्ति। आयोजकानां मते अनेन महोत्सवेन संस्कृतं केवलं प्राचीन-भाषारूपेण न, अपि तु भारतस्य जीवितज्ञानपरम्परायाः सांस्कृतिक-चेतनायाश्च आधाररूपेण जनं जनं प्रति प्रापयितुं प्रयासः क्रियते।

Hindusthan Samachar / अंशु गुप्ता