Enter your Email Address to subscribe to our newsletters


सारणम्, 29 अगस्तमासः (हि.स.)। राजेन्द्रमहाविद्यालयस्य सप्तमबटालियन-एनसीसी-दलस्य द्वारा बी-प्रमाणपत्रं प्राप्तवद्भ्यः कैडेट्भ्यः सम्मानसमारोहः आयोजितः। कार्यक्रमे उत्कृष्टप्रदर्शनं कृतवद्भ्यः कैडेट्भ्यः प्रमाणपत्राणि, पदकानि च प्रदत्तानि। तेषां निष्ठायाः अनुशासनस्य च आधारेण विभिन्नाः श्रेणीपदव्यः अपि प्रदत्ताः।
समारोहं सम्बोधयन् प्राचार्यः प्रोफेसर् सञ्जयकुमारः कैडेट्भ्यः शुभकामनाः दत्त्वा ‘कर्म एव पूजा’ इति सिद्धान्तं सफलतायाः कुञ्जिका इति प्रतिपादितवान्। अपरतः एनसीसी-अधिकारी डॉ. इश्तियाक अहमदः सूर्यस्य नियमबद्धतायाः उदाहरणं प्रदर्श्य कैडेट्भ्यः कठोरानुशासनेन सह जीवने अग्रे गन्तुं प्रेरणां दत्तवान्।
अस्मिन् अवसरे डॉ. बेठियारसिंहसाहुः, डॉ. कन्हैयाप्रसादः, डॉ. निधिकुमारी, डॉ. विकासकुमारः तथा डॉ. एजाजअहमदः इत्यादयः अनेके प्राध्यापकाः उपस्थिताः आसन्। कैडेटानां उत्साहवर्धनेन समारोहः सम्पन्नः।
---------------
Hindusthan Samachar / Dheeraj Maithani