तारापीठमन्दिरे पूजार्चनां कृत्वा मुख्यमन्त्री उक्तवान्—परम्परया संस्कृत्या च समृद्धां बीरभूमिं निर्मास्यामः
बीरभूमिः, अगस्तमासस्य २९ दिनाङ्कः (हि.स.)। कौशिक्यामावास्यायाः पूर्वं मुख्यमन्त्री शुभेन्द्वधिकारी शनिवासरे प्रसिद्धे तारापीठमन्दिरे मातुः तारायाः पूजार्चनां कृतवान्। शिरसि पूजा-सामग्रीपूर्णां डलिकां धृत्वा मन्दिरस्य गर्भगृहं प्राप्तः मुख्यमन्त्री
तारापीठ मंदिर में पूजा करने पहुंचे मुख्यमंत्री शुभेंदु अधिकारी


बीरभूमिः, अगस्तमासस्य २९ दिनाङ्कः (हि.स.)। कौशिक्यामावास्यायाः पूर्वं मुख्यमन्त्री शुभेन्द्वधिकारी शनिवासरे प्रसिद्धे तारापीठमन्दिरे मातुः तारायाः पूजार्चनां कृतवान्। शिरसि पूजा-सामग्रीपूर्णां डलिकां धृत्वा मन्दिरस्य गर्भगृहं प्राप्तः मुख्यमन्त्री विधिवत् पूजार्चनां कृत्वा मन्त्राणाम् उच्चारणमध्ये पुष्पाञ्जलिम् अर्पितवान्। सः मातरं तारां रक्तवर्णया बनारसीवस्त्रिकया, कमलपुष्पैः अपराजितामालया च समर्पितवान् तथा च स्वयं मालां धृत्वा आरार्तिक्यमपि कृतवान्।मुख्यमन्त्रिणः मन्दिरप्राङ्गणे आगमन-मात्रेण तत्र उपस्थितेषु श्रद्धालुषु उत्साहः दृश्यते स्म। अनेके जनाः तेन सह छायाचित्रं ग्रहीतुं समागताः। पूजार्चनानन्तरं मुख्यमन्त्री मातुः तारायाः आशीर्वादं गृहीत्वा मन्दिरात् बहिरागतवान्।

मुख्यमन्त्री उक्तवान्— “मातुः तारायाः आशीर्वादेन वयं परम्परया, संस्कृत्या, रवीन्द्रनाथटागोरस्य परम्परया च समृद्धां बीरभूमिं निर्मास्यामः।” सः उक्तवान् यत् मुख्यमन्त्रीपदम् अधिगम्य तेन कालीघाटसहितानि राज्यस्य अनेकानि प्रमुखानि श्रद्धास्थलानि परिदृष्टानि, किन्तु तारापीठस्य दर्शनं शेषम् आसीत्, यत् तेन शनिवासरे सम्पन्नम्।

कौशिक्यामावास्यां विषयीकरोति सः उक्तवान् यत् श्रद्धालूनां सुविधार्थं सर्वाः आवश्यकव्यवस्थाः क्रियन्ते। अस्मिन् अवसरे तारापीठमन्दिरे बहुसंख्यया श्रद्धालवः समागमिष्यन्ति इति सम्भावना अस्ति।

Hindusthan Samachar / Divya Ranjan