सज्जनकुमारस्य गृहम् अगच्छत्सु त्रिषु भाजपासांसदेषु दलस्य कठोरः व्यवहार:, नितिन नवीनः तान् आहूतवान्
नवदिल्ली, २९ अगस्तमासः (हि.स.)।१९८४ तमे वर्षे सिख्-विरोधिहिंसाकाण्डस्य दोषी पूर्वकाङ्ग्रेस-सांसदः सज्जनकुमारः निधनं प्राप्तवान्। तस्य निधनानन्तरं शोकं प्रकटयितुं तस्य गृहम् अगच्छत्सु भारतीयजनतापक्षस्य त्रिषु सांसदेषु दलं कठोरं पगं स्वीकृतवान्। शुक्
भाजपा


नवदिल्ली, २९ अगस्तमासः (हि.स.)।१९८४ तमे वर्षे सिख्-विरोधिहिंसाकाण्डस्य दोषी पूर्वकाङ्ग्रेस-सांसदः सज्जनकुमारः निधनं प्राप्तवान्। तस्य निधनानन्तरं शोकं प्रकटयितुं तस्य गृहम् अगच्छत्सु भारतीयजनतापक्षस्य त्रिषु सांसदेषु दलं कठोरं पगं स्वीकृतवान्। शुक्रवासरे भाजपायाः राष्ट्रियाध्यक्षः नितिननवीनः त्रयः अपि सांसदान् आहूय तेषां अस्मिन् कृत्ये अप्रसन्नतां प्रकटितवान् तथा च तान् कठोरतया भर्त्सितवान्। भर्त्सितेषु सांसदेषु दक्षिणदिल्ली इत्यस्य सांसदः रामवीरसिंहबिधूडी, उत्तरपश्चिमदिल्ली इत्यस्य सांसदः योगेन्द्रचन्दोलिया तथा पश्चिमदिल्ली इत्यस्य सांसदः कमलजीत-सहरावत् च सम्मिलिताः सन्ति। अस्मिन् घटनाक्रमे १९८४ तमे वर्षे सिख्-हिंसापीडितानां पक्षतः न्यायिकसंघर्षं कुर्वता वरिष्ठनेता एच. एस. फुल्केनापि कठोरापत्तिः प्रकटिता।

सः स्वीयाम् अप्रसन्नतां प्रकटयन् ‘एक्स्’-इत्यत्र अवदत् यत् सामूहिकहत्यायाः दोषिणः सज्जनकुमारस्य गृहम् गत्वा तस्य मृत्योः विषये शोकं प्रकटितवद्भिः त्रिभिः सांसदैः— कमलजीतसहरावत्, रामवीर-सिंहबिधूडी तथा योगेन्द्रचन्दोलिया— कृतस्य अस्य आचरणस्य सः तीव्रां निन्दां करोति। एतत् तस्मिन् समये जातं यदा भाजपादलं सदैव एतेषां दोषिणां विरुद्धं न्यायप्राप्तये अस्माकं संघर्षस्य समर्थनं कृतवदस्ति तथा च तान् कारागारे स्थापयितुं अस्माभिः सह सहयोगं कृतवदस्ति। सहानुभूतिः पीडितेभ्यः तेषां परिवारजनेभ्यश्च भवितुमर्हति, येषु बहवः अद्यापि तस्मिन् कालखण्डे अनुभूतस्य भयस्य छायायां जीवन्ति। सः एतेषां त्रयाणां सांसदानां बहिष्कारस्य अपि याचनां कृतवान्।

त्रयाणां सांसदानां दलाध्यक्षेण आह्वानं कृत्वा सर्वेषां प्रत्युत्तरं याचितुं कृता कार्यवाहीं प्रति सन्तोषं प्रकटयन् एच. एस. फुल्का अवदत् यत् भाजपायाः पग: प्रारम्भादेव स्पष्टः अस्ति। विगतेषु ४२ वर्षेषु दलं दोषिभ्यः दण्डं पीडितेभ्यश्च न्यायं प्रदातुं मागं कुर्वद् अस्य संघर्षस्य पूर्णसमर्थनं कृतवत् अस्ति। मदनलालादयः बहवः नेतारः अस्य कृते संघर्षं कृतवन्तः।

Hindusthan Samachar / Divya Ranjan