Enter your Email Address to subscribe to our newsletters

नैनीतालम्, 29 अगस्तमासः (हि.स.)।राष्ट्रियक्रीडादिवसस्य अवसरे मुख्यमन्त्री पुष्करसिंहधामी शनिवासरे नैनीतालनगरे उत्तराखण्डस्य प्रथमस्य क्रीडाविश्वविद्यालयस्य भूमिपूजनं शिलान्यासं च कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् क्रीडाविश्वविद्यालयं राज्यस्य क्रीडाप्रतिभानां परिष्काराय तथा च क्रीडकानां कृते विश्वस्तरीयप्रशिक्षणस्य सुविधानां च उपलब्धतायै महत्त्वपूर्णं सोपानं सिद्धं भविष्यति।
मुख्यमन्त्री उक्तवान् यत् राष्ट्रीयक्रीडादिवसस्य अवसरे क्रीडाविश्वविद्यालयस्य उपहारः प्रदेशस्य युवभ्यः क्रीडाप्रतिभाभ्यः च महत्त्वपूर्णा उपलब्धिः अस्ति। अनेन राज्यस्य क्रीडकानां कृते राष्ट्रिय-अन्तरराष्ट्रीयस्तरे स्वप्रतिभां प्रदर्शयितुं श्रेष्ठं मञ्चं प्राप्स्यते।
सः उक्तवान् यत् उत्तराखण्डे आयोजितैः राष्ट्रीयक्रीडाभिः राज्ये क्रीडानां प्रति नूतनः उत्साहः वातावरणं च निर्मितम् अस्ति। शासनम् एतां गतिम् अग्रे नयन् क्रीडाप्रतिभानां निरन्तरप्रोत्साहनाय कार्यं कुर्वत् अस्ति।
मुख्यमन्त्री उक्तवान् यत् उत्तराखण्डे क्रीडाप्रतिभानां कश्चित् अभावः नास्ति। आवश्यकता अस्ति तासां प्रतिभानां कृते समुचितावसरस्य, प्रशिक्षणस्य, आधुनिकसंसाधनानां च उपलब्धतायाः। क्रीडाविश्वविद्यालयस्य माध्यमेन प्रदेशस्य क्रीडकानां कृते उच्चस्तरीयप्रशिक्षणं, क्रीडाविज्ञानं, अनुसन्धानं तथा अन्याः आवश्यकाः सुविधाः एकस्मिन् परिसरे उपलब्धाः कर्तुं प्रयासः क्रियते।
सः उक्तवान् यत् राज्यशासनेन क्रीडकानां प्रोत्साहनाय नूतना क्रीडानीतिः कार्यान्विता अस्ति। अस्याः नीत्याः अन्तर्गतं प्रतिभाशालिभ्यः क्रीडकेभ्यः विभिन्नेषु स्तरेषु प्रोत्साहनं सुविधाः च प्रदीयन्ते। क्रीडकानां शिक्षां प्रशिक्षणं च प्रोत्साहयितुं छात्रवृत्तिरपि प्रदीयते।
धामी उक्तवान् यत् शासनस्य उद्देश्यम् उत्तराखण्डं देशस्य प्रमुखेषु क्रीडाराज्येषु सम्मिलितं कर्तुम् अस्ति। अस्य कृते क्रीडाङ्गणानां प्रशिक्षणसुविधानां च विस्तारस्य सहैव क्रीडकानां कृते श्रेष्ठावसरप्रदाने विशेषं ध्यानं दीयते।
-------------
Hindusthan Samachar / Dheeraj Maithani