शुद्धिकरणे कांग्रेसदलं प्रकरण विहीन सत् तुष्टिकरणस्य राजनीतिं करोति : धामी
देहरादूनम्, 29 अगस्तमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी शुद्धीकरणविषये शनिवासरे कांग्रेसदलं मुद्दाविहीनं भूत्वा तुष्टीकरणस्य राजनीतिं करोति तथा च मतानां प्राप्तये मिथ्यानैरेटिव् निर्मातुम् प्रयतते इति आरोपितवान्। सः अवदत् यत् हल्द्वानीनगरस्
आईटीसी फॉर्च्यून में आयोजित संवाद कार्यक्रम में व्यापारियों एवं उद्योग प्रतिनिधियों से मुख्यमंत्री संवाद कार्यक्रम को संबोधित करते हुए।


देहरादूनम्, 29 अगस्तमासः (हि.स.)।

मुख्यमन्त्री पुष्करसिंहधामी शुद्धीकरणविषये शनिवासरे कांग्रेसदलं मुद्दाविहीनं भूत्वा तुष्टीकरणस्य राजनीतिं करोति तथा च मतानां प्राप्तये मिथ्यानैरेटिव् निर्मातुम् प्रयतते इति आरोपितवान्। सः अवदत् यत् हल्द्वानीनगरस्य धार्मिककार्यक्रमसम्बद्धं प्रकरणं जातीयं रूपं दत्त्वा समाजं विभाजयितुं प्रयासः न करणीयः।

श्रीधामी अवदत् यत् हल्द्वानीनगरस्य रामलीलामैदाने आयोजितस्य धार्मिककार्यक्रमस्य समये एकधर्मविशेषसमुदायस्य जनैः धार्मिकनाराः उद्घोषिताः। कार्यक्रमस्य अनन्तरं तत्र प्रसृता अशुद्धता एका धार्मिकसंस्थया स्वच्छीकृता शुद्धीकृता च। सः स्पष्टतया अवदत् यत् सम्बन्धितस्य स्वयंसेवीसङ्घटनस्य भारतीयजनतापक्षेन सह किमपि सम्बन्धः नास्ति।

मुख्यमन्त्री अवदत्— ‘उत्तराखण्डस्य संस्कृतिः जाति-पाति-भेदभावस्य न, अपितु सर्वेषां आत्मसात्करणस्य परम्परा अस्ति।’ सः कांग्रेसदलं प्रति आह्वानं कृतवान् यत् अस्मिन् प्रकरणे अनावश्यकतया जातीयं रूपं न दद्यात् तथा समाजं विभाजयितुं प्रयासं न करोतु।

कांग्रेसाध्यक्षस्य मल्लिकार्जुनखर्गे इत्यस्य सन्दर्भे धामी अवदत् यत् उत्तराखण्डस्य जनाः तस्य सम्मानं कुर्वन्ति तथा सः वरिष्ठः सम्मानितश्च नेता अस्ति। सः अवदत् यत् कांग्रेसः केन आधारेण एतादृशान् विषयान् जातीयं रूपं दातुं प्रयतते इति बोधगम्यं न भवति।

धामी अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे केन्द्रसर्वकारः ‘सर्वेषां सहकारः, सर्वेषां विकासः, सर्वेषां विश्वासः’ इत्यस्य भावनया कार्यं करोति, अपरपक्षे कांग्रेसः मतानां प्राप्तये मिथ्यानैरेटिव् निर्मातुं प्रयतते।

सः कांग्रेसस्य प्राचीनराजनैतिकेतिहासस्य उल्लेखं कुर्वन् अवदत् यत् सीतारामकेसरी, बाबूजगजीवनरामः तथा डॉ. भीमरावाम्बेडकरः इत्येतेषां प्रति कांग्रेसस्य व्यवहारं सम्पूर्णः देशः दृष्टवान् अस्ति। मुख्यमन्त्री अवदत् यत् कांग्रेसदलेन समाजविभाजनस्य स्थाने सामाजिकसौहार्दं परस्परभ्रातृत्वं च सुदृढं कर्तुं दिशि कार्यं करणीयम्।

Hindusthan Samachar / Dheeraj Maithani