सर्वेषां समस्यानां समाधानं सर्वकारस्य प्रतिबद्धता : मुख्यमंत्री याेगी
गोरखपुरम्, 29 अगस्तमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः गोरखपुरप्रवासस्य अवधौ शनिवासरे प्रातः गोरखनाथमन्दिरे आयोजिते जनदर्शनकार्यक्रमे विभिन्नेभ्यः जनपदेभ्यः समागतैः जनैः सह मिलित्वा तेषां समस्याः श्रुतवान्। अस्मिन् अवसरे सः अवदत् यत् भेदभावं
मुख्यमंत्री योगी


गोरखपुरम्, 29 अगस्तमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः गोरखपुरप्रवासस्य अवधौ शनिवासरे प्रातः गोरखनाथमन्दिरे आयोजिते जनदर्शनकार्यक्रमे विभिन्नेभ्यः जनपदेभ्यः समागतैः जनैः सह मिलित्वा तेषां समस्याः श्रुतवान्। अस्मिन् अवसरे सः अवदत् यत् भेदभावं विना प्रत्येकस्य व्यक्तेः समस्यायाः समाधानं कारयितुं सर्वकारः प्रतिबद्धः अस्ति। मुख्यमन्त्री योगी अधिकारिभ्यः निर्देशं दत्तवान् यत् जनानां शिकायतानां संवेदनशीलतया शीघ्रतया च निस्तारणं क्रियताम्। सः प्रत्येकस्मै पात्राय जनकल्याणकारीयोजनानां लाभं प्रदातुं, आवश्यकताग्रस्तानां समुचितचिकित्सायाः व्यवस्था कर्तुं तथा भूमेः अवैधाधिपत्यं कुर्वद्भ्यः भूमाफियाभ्यः दबङ्गेभ्यश्च विरुद्धं कठोरकार्यवाही कर्तुं निर्देशान् दत्तवान्।

गोरखनाथमन्दिरस्य महन्तदिग्विजयनाथस्मृतिभवनस्य बहिः आयोजिते जनदर्शनकार्यक्रमे मुख्यमन्त्री योगी आदित्यनाथः प्रायः द्विशतं जनान् अमिलत्। सः आसन्देषु उपविष्टानां जनानां समीपं स्वयमेव गत्वा तेषां समस्याः शिकायताश्च ध्यानपूर्वकं श्रुतवान्। सर्वेषां प्रार्थनापत्राणि सम्बन्धिताधिकारिभ्यः प्रेषयित्वा तेषां शीघ्रं सन्तोषजनकं च निस्तारणं कर्तुं निर्देशं दत्त्वा सः जनान् आश्वस्तवान् यत् प्रत्येकस्य पीडितस्य समस्यायाः पारदर्शकं समाधानं सुनिश्चितं करिष्यते।

जनदर्शने पूर्ववत् शनिवासरेऽपि केचन जनाः गम्भीररोगाणां चिकित्सार्थम् आर्थिकसहायतायाः याचनां कृत्वा मुख्यमन्त्रिणः समीपम् आगतवन्तः। एतेभ्यः जनाभ्यः मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् धनाभावात् कस्यापि जनस्य चिकित्सा न स्थास्यति। सः अधिकारिभ्यः निर्देशं दत्तवान् यत् ये केचन आवश्यकताग्रस्ताः सन्ति, प्रशासनं तेषां उच्चस्तरीयचिकित्सायाः व्ययप्राक्कलनं शीघ्रं कारयित्वा उपलब्धं कारयेत्। व्ययप्राक्कलनं प्राप्तमात्रेण सर्वकारः तत्क्षणं धनराशिं उपलब्धं करिष्यति।

मुख्यमन्त्रिणा राजस्वसम्बद्धेषु विधिव्यवस्थासम्बद्धेषु च प्रकरणेषु शीघ्रं निस्तारणं कर्तुं निर्देशाः दत्ताः। जनदर्शनकार्यक्रमे केचन जनाः पारिवारिकविवादसम्बद्धानि प्रकरणान्यपि उपस्थापितवन्तः। अस्मिन् विषये मुख्यमन्त्रिणा अधिकारिभ्यः निर्देशितं यत् पारिवारिकविवादेषु सम्बन्धितपक्षयोः मध्ये संवादं स्थापयितुं प्रयासः क्रियताम्।

मुख्यमन्त्रिणा गोसेवा कृता, गोवंशेभ्यः गुड-पूरिकाः भोजिताः

गोरखनाथमन्दिरे प्रवासस्य अवधौ शनिवासरे प्रातः मुख्यमन्त्री योगी आदित्यनाथस्य दिनचर्या परम्परानुसारमेव आसीत्। गुरुगोरखनाथस्य दर्शनं पूजनं च कृत्वा तथा स्वगुरोः ब्रह्मलीनस्य महन्तस्य अवेद्यनाथस्य प्रतिमायाः पुरतः शिरः नत्वा सः मन्दिरपरिसरस्य भ्रमणाय निर्गतवान्। मन्दिरस्य गोशालां प्राप्य सः गोसेवां कृतवान्। मुख्यमन्त्रिणा गावः गोवंशाश्च स्नेहभावेन गुड-पूरिकाभिः भोजिताः।

---------------

Hindusthan Samachar / Dheeraj Maithani