Enter your Email Address to subscribe to our newsletters

लखनऊम्, २९ अगस्तमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे सायंकाले स्वकीयस्य शासकीयस्य आवासस्य पञ्च-कालिदास-मार्गस्य कार्यालयात् दूरदृश्यसम्पर्कमाध्यमेन सभां करिष्यति। अस्यां सभायां प्रदेशस्य विधिव्यवस्थायाः स्थितेः तथा च अग्रिमाणां पर्वणां सन्दर्भे सज्जतायाः विषये चर्चा भविष्यति। अतिवृष्टेः कारणेन प्रदेशस्य विभिन्नेषु जनपदेषु उत्पन्नां जलौघस्थितिं नियन्त्रितुं शासकीययोजनानां समीक्षामपि मुख्यमन्त्री करिष्यति।
मुख्यमन्त्री राजस्वस्य, बाढस्थितेः, विधिव्यवस्थायाश्च सम्बन्धे अधिकारिभिः सह सभां करिष्यति। अस्याम् अन्तर्जाल-सभायां प्रदेशस्य सर्वेभ्यः स्थानेभ्यः आरक्षक-प्रशासनस्य अधिकारिणः सम्बद्धाः भविष्यन्ति। सर्वे मण्डलायुक्ताः, जनपदाधिकारीणः, अपर-महानीरक्षकाः, महानीरक्षकाः, उप-महानीरक्षकाः तथा आरक्षक-अधीक्षकाः सभायां सम्मिलितुं निर्दिष्टाः सन्ति। अस्यां सभायां नगरायुक्ताः, मुख्यचिकित्साधिकारिणः च अपि आहूताः सन्ति।
Hindusthan Samachar / Divya Ranjan