Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, २९ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य मीरजापुरजनपदे उच्चशिक्षाक्षेत्रे महत्त्वपूर्णा उपलब्धिः प्राप्ता अस्ति। माँ-विन्ध्यवासिनी-विश्वविद्यालयाय विधि-पाठ्यक्रमस्य सञ्चालनस्य अनुमतिः प्राप्ता अस्ति। बार्-काउन्सिल्-ऑफ्-इण्डियापं इत्यनेन विश्वविद्यालयाय विधिशिक्षायाः प्रारम्भाय मान्यता प्रदत्ता अस्ति। अनेन मीरजापुरस्य सोनभद्रस्य च समीपवर्तिक्षेत्राणां विद्यार्थिभ्यः विधि-शास्त्रस्य अध्ययनस्य मार्गः अधुना स्थानीयस्तरे एव प्रशस्तः अभवत्।
विश्वविद्यालयस्य कुलसचिवस्य रामनारायणस्य अनुसारं बी.सी.आई. इत्यस्य पक्षतः २०२६ तमस्य वर्षस्य जुलाईमासस्य चतुर्थे दिनाङ्के निर्गतेन पत्रेण एषा स्वीकृतिः प्रदत्ता अस्ति। विधिशिक्षास्थायिसमित्या विश्वविद्यालयस्य निरीक्षणं, उपलब्धानाम् अभिलेखानां परीक्षणं, शैक्षणिकमानकानां च परीक्षणं कृत्वा मान्यताप्रदानस्य अनुशंसा कृता।
बी.सी.आई. इत्यस्य अनुमत्यानन्तरं विश्वविद्यालये विधिशिक्षायाः नूतनम् अध्यायं प्रारप्स्यते। अधुना विधिशास्त्रस्य अध्ययनं कर्तुम् इच्छुकैः विद्यार्थिभिः तदर्थम् अन्यनगराणां गमनं न कर्तव्यं भविष्यति। विशेषतः मीरजापुरस्य सोनभद्रस्य च सह सम्पूर्णस्य विन्ध्यक्षेत्रस्य विद्यार्थिभ्यः अस्याः सुविधायाः प्रत्यक्षः लाभः भविष्यति इति अपेक्षा अस्ति।
विश्वविद्यालयप्रशासनस्य अनुसारं अधिवक्ताअधिनियमः-१९६१ इत्यस्य सप्तम्याः धारायाः (१)(i) उपधारायाः तथा विधिशिक्षानियमाः-२००८ इत्यस्य प्रावधानानाम् अन्तर्गतं मान्यता प्रदत्ता अस्ति। बी.सी.आई. इत्यनेन विश्व-विद्यालयाय निर्धारितानां शैक्षणिक-मानकानाम् अन्यासां च शर्तानां निरन्तरं पालनं सुनिश्चितं कर्तुं निर्देशाः प्रदत्ताः सन्ति। तथैव षण्मासाभ्यन्तरे आवश्यकं शपथपत्रं सम्बद्धान् अभिलेखांश्च परिषदः समक्षं प्रस्तोतुं निर्दिष्टम् अस्ति।
विश्वविद्यालये विधिपाठ्यक्रमस्य प्रारम्भेन क्षेत्रे विधिशिक्षायाः विकासेन सह विद्यार्थिभ्यः नवीनाः शैक्षणिकाः व्यावसायिकाः च अवसराः अपि उद्घाटिताः भविष्यन्ति।
Hindusthan Samachar / Divya Ranjan