Enter your Email Address to subscribe to our newsletters

- गतवर्षस्य अपेक्षया द्विगुणाधिकसंख्यया श्रद्धालवः समुपस्थिताः
भोपाल/उज्जयिनी, २९ अगस्तमासः (हि.स.)। मध्यप्रदेशे अस्मिन् वर्षे श्रावणमासस्य अवधौ उज्जयिनी-जनपदस्थिते विश्वविख्याते ज्योतिर्लिङ्गे श्रीमहाकालेश्वरमन्दिरे श्रद्धायाः नवीनं कीर्तिमानं स्थापितम् अस्ति। एकस्मिन् मासे भगवतः महाकालस्य दर्शनार्थम् आगतानां श्रद्धालूनां सङ्ख्या प्रथमवारं सार्धकोटिम् अतिक्रम्य अभिलिखिता अस्ति। अस्मिन् अवधौ मन्दिरसमितेः शीघ्रदर्शनप्रवेशपत्राणां तथा मोदक-प्रसादस्य विक्रयात् कोटिशः रूप्यकाणां अभिलेखनीयः आयः प्राप्तः अस्ति।
श्रीमहाकालेश्वरमन्दिरप्रबन्धसमितेः प्रशासकस्य प्रथमकौशिकस्य अनुसारं श्रावणमासे समग्रतया १ कोटिः ५३ लक्षं ७५ सहस्रं श्रद्धालवः महाकालस्य शरणम् आगताः, या सङ्ख्या वर्षे २०२५ अभिलिखितानां ७२ लक्षं श्रद्धालूनां अपेक्षया द्विगुणादपि अधिका अस्ति। मुख्य-मन्दिरे १ कोटिः १० लक्षं ९० सहस्रं ७२५ श्रद्धालवः सामान्यदर्शनं कृतवन्तः, यदा च ४३ लक्षं ७५ सहस्रं श्रद्धालवः चतसृणां प्रमुखसवारीणां तथा नागचन्द्रेश्वर-मन्दिरस्य दर्शनार्थम् आगताः। अस्मिन् काले ५ लक्षाधिकाः कावड़यात्रिणः अपि समागताः, येषु २ लक्षं ७१ सहस्राधिकेभ्यः कावड़यात्रिभ्यः पञ्चस्थानेषु भोजनस्य व्यवस्था कृता तथा १० सहस्रं श्रद्धालुभ्यः निःशुल्काः चरणपादुकाः वितरिताः। इतोऽपि ३ लक्षं ४१ सहस्राधिकाः भक्ताः अन्नक्षेत्रे भोजनप्रसादं स्वीकृतवन्तः।
मन्दिरस्य आयस्य अपि महती वृद्धिः
श्रद्धालूनां प्रचण्डसम्मर्दस्य मध्ये व्यवस्थाः सुचारुतया सञ्चालिताः तथा मन्दिरस्य आयस्य अपि महती वृद्धिः दृष्टा। श्रावणमासे ५ लक्षं ६६ सहस्रं ३५० भक्ताः शीघ्रदर्शनव्यवस्थायाः लाभं प्राप्तवन्तः, येन मन्दिरप्रबन्धसमितेः १४ कोटिः २२ लक्षं ३७ सहस्रं ५०० रूप्यकाणाम् आयः अभवत्। तथैव २ लक्षं १८ सहस्रं ६६२ कुन्तलपरिमितस्य मोदकप्रसादस्य विक्रयात् मन्दिराय १० कोटिः ३२ लक्षं ७३ सहस्रं रूप्यकाणि प्राप्तानि।
अस्मिन् वर्षे तिस्रः प्रमुखाः नवीनाः प्रयत्नाः
मन्दिरप्रशासनेन श्रद्धालूनां सुविधार्थम् अस्मिन् वर्षे तिस्रः प्रमुखाः नवीनाः प्रयत्नाः अपि कृताः। अन्नक्षेत्रे प्रत्येकं मङ्गलवासरे शुक्रवासरे च ‘रससङ्गमम्’ इति नाम्ना दक्षिणभारतीयभोजनस्य व्यवस्था प्रारब्धा, यस्यां इडली, वडा, साम्बारः तथा च तण्डुलाः परोक्ष्यन्ते स्म। अस्य लाभं प्रथमदिने एव १० सहस्राधिकाः श्रद्धालवः प्राप्तवन्तः।
एतदतिरिक्तं नागपञ्चम्याः दिने पटोद्घाटनात् त्रिदिनपूर्वं ३०० रूप्यकाणां शुल्केन अन्तर्जालमाध्यमेन शीघ्रदर्शनस्य आरक्षणव्यवस्था प्रारब्धा, येन पटोद्घाटनात् पूर्वमेव मन्दिरसमितेः ३९ लक्ष रूप्यकाणाम् आयः अभवत्।
तथैव कावड़यात्रिणां सुगमदर्शनार्थं मङ्गलवासरात् शुक्रवासरपर्यन्तं द्वार-सङ्ख्या १ तथा हरसिद्धिचतुष्पथात् पृथक् प्रवेशव्यवस्था कृता। सभामण्डपे कार्तिकमण्डपे च पात्राणि स्थापयित्वा जलार्पणस्य सुविधा अपि प्रदत्ता।
---------------
Hindusthan Samachar / Divya Ranjan