Enter your Email Address to subscribe to our newsletters

नैनीतालम्, २९ अगस्तमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी शनिवासरे नैनीतालमण्डलस्य एकदिवसीययात्रायां भविष्यति। अस्यां यात्रायां सः गौला-पारे उत्तराखण्डराज्यक्रीडाविश्वविद्यालयस्य भूमिपूजन-शिलान्यासकार्यक्रमे राष्ट्रिय-क्रीडादिवससमारोहे च प्रतिभागं करिष्यति। ततः हल्द्वानीनगरे व्यापारोद्योगजगतः प्रतिनिधिभिः सह संवादसहितेषु विविधकार्यक्रमेषु सम्मिलितः भविष्यति।
प्रशासनेन प्रदत्तविवरणानुसारं मुख्यमन्त्री पूर्वाह्णे ११:५० वादने रुद्रपुरस्य डी.पी.एस.-विद्यालयक्रीडाङ्गणात् हेलिकॉप्टरयानेन प्रस्थाय मध्याह्ने १२ वादने गौला-पार-क्रीडाङ्गणस्य हेलीपैडं प्राप्स्यति। ततः १२:१० वादने कारयानेन उत्तराखण्डराज्य-क्रीडाविश्वविद्यालयं प्रति प्रस्थाय १२:१५ वादने तत्र प्राप्स्यति। सः मध्याह्ने २ वादनपर्यन्तं भूमिपूजनं, शिलान्यासं राष्ट्रियक्रीडादिवसस्य उपलक्ष्ये आयोजिते कार्यक्रमे च प्रतिभागं करिष्यति।
तदनन्तरं मध्याह्ने २ वादने क्रीडाविश्वविद्यालयात् प्रस्थाय २:४५ वादनतः ३:३० वादनपर्यन्तं हल्द्वानी-नगरस्य आई.टी.डी.सी. फॉर्च्यून-स्थले व्यापारोद्योगबन्धुभिः सह संवादं करिष्यति। ३:३० वादने तत्रतः आनन्दबागं प्रति प्रस्थाय कार्यक्रमे सम्मिलितः भविष्यति। ततः ४ वादने मुखानीस्थितं साउथ-एन्क्लेव-४ इत्यत्र प्राप्स्यति, यत्र ४:३० वादनपर्यन्तं कार्यक्रमे प्रतिभागं करिष्यति।
तदनन्तरं ४:३० वादने एफ.टी.आई.-हेलीपैडस्थानं प्रति प्रस्थाय सायं ४:४० वादने हेलिकॉप्टरयानेन देहरादूनं प्रति प्रस्थास्यति। अद्य राष्ट्रियक्रीडादिवसस्य अवसरे उत्तराखण्डराज्यक्रीडा-विश्वविद्यालयस्य शिलान्यासः प्रदेशस्य क्रीडाक्षेत्रे महत्त्व-पूर्णस्य बृहदारम्भस्य रूपेण दृश्यते।
Hindusthan Samachar / Divya Ranjan