प्रादेशिकसेनायाः ७७ वर्षानन्तरं स्वकीयम् आधिकारिकं गीतम् प्राप्तम्, कोलकातानगरे विमोचनम् अभवत्
कोलकाता, २९ अगस्तमासः (हि.स.)। देशस्य सुरक्षायां पर्यावरणसंरक्षणादिषु च महत्त्वपूर्णकार्येषु योगदानं कुर्वत्याः प्रादेशिकसेनायाः अन्ततः स्वकीयम् आधिकारिकं गीतं प्राप्तम्। १९४९ तमे वर्षे स्थापनानन्तरं प्रायः ७७ वर्षपर्यन्तम् अस्याः सेनायाः किमपि आधि
प्रादेशिक सेना (टेरिटोरियल आर्मी)


कोलकाता, २९ अगस्तमासः (हि.स.)। देशस्य सुरक्षायां पर्यावरणसंरक्षणादिषु च महत्त्वपूर्णकार्येषु योगदानं कुर्वत्याः प्रादेशिकसेनायाः अन्ततः स्वकीयम् आधिकारिकं गीतं प्राप्तम्। १९४९ तमे वर्षे स्थापनानन्तरं प्रायः ७७ वर्षपर्यन्तम् अस्याः सेनायाः किमपि आधिकारिकं गीतं नासीत्। अधुना कोलकातानगरे आयोजितस्य द्विदिवसीयस्य ‘नो योर टेरिटोरियल आर्मी’ संगोष्ठ्याः तथा ‘टीए २.०’ विचारगोष्ठ्याः समापनदिने अस्य गीतस्य औपचारिकं विमोचनम् अभवत्।प्रादेशिकसेनायाः पक्षतः शनिवासरे प्रसारितस्य वक्तव्यस्य अनुसारम्, आधिकारिकगीतस्य विमोचनं समारोह-स्थेषां वरिष्ठसैन्याधिकारिणां अन्येषां विशिष्टातिथीनां च उपस्थितौ कृतम्। एतत् प्रादेशिकसेनायाः विशिष्टपरिचयस्य, परम्परायाः सेवाभावनायाश्च सुदृढी-करणस्य दिशि महत्त्वपूर्णः प्रयत्नः इति मन्यते।

प्रादेशिकसेनायां ते पुरुषाः महिलाश्च सम्मिलिताः भवन्ति, ये स्वकीयेन नियमितव्यवसायेन सह वर्षस्य कतिपयकालं सैनिकरूपेण देशस्य सेवां कुर्वन्ति। एषा सेना महत्त्वपूर्णप्रतिष्ठानानां सुरक्षायां, पर्यावरणसंरक्षणे अन्येषु राष्ट्रियदायित्वेषु च स्वकीयां भूमिकां निर्वहति।

दीर्घकालात् देशसेवायां योगदानं ददती प्रादेशिकसेना अद्यावधि स्वकीयेन केनापि आधिकारिकगीतेन रहिता आसीत्। नवीनगीतस्य माध्यमेन अस्यै सेनायै स्वकीयेन विशिष्टसैन्यपरिचयेन सम्बद्धम् अपरम् एकं नवीनं प्रतीकमपि प्राप्तम्।

कोलकातानगरे आयोजितस्य कार्यक्रमस्य समये प्रादेशिकसेनायाः भविष्यविषये, प्रौद्योगिक्याः उपयोगे, नियुक्तिप्रक्रियायां पर्यावरणसंरक्षणादिषु च विषयेषु विस्तरेण चर्चा अभवत्। कार्यक्रमे पूर्वीयकमाण्डस्य प्रमुखः कर्मचारी-अधिकारी लेफ्टिनेन्ट् जनरल गम्भीरसिंहः, प्रादेशिकसेनायाः अतिरिक्त-महानिदेशकः मेजर जनरल सुजीतशिवाजीपाटिलः तथा अन्ये बहवः वरिष्ठाः सेवायां वर्तमानाः सेवानिवृत्ताश्च अधिकारिणः उपस्थिताः आसन्।

पूर्वोपसेनाप्रमुखः लेफ्टिनेन्ट् जनरल राकेशकपूरः (सेवानिवृत्तः) ‘टीए इत्यस्य भविष्यस्य दृष्टिः’ इति विषये मुख्यसम्बोधनम् अकरोत्। तेन प्रौद्योगिक्याः वर्धमानोपयोगस्य मध्ये प्रादेशिकसेनायाः भविष्यस्य रूपरेखायाः विषये स्वविचाराः प्रस्तुताः।

कार्यक्रमस्य प्रथमा परिचर्चा ‘भारतस्य राष्ट्रियप्रतिभायै अवसरप्रदानम्’ इति विषये अभवत्। अस्यां भारतीयप्रौद्योगिकी-संस्थानस्य खड्गपुरस्य प्राध्यापकः बसबचक्रवर्ती, भारतीयप्राणिसर्वेक्षण-संस्थायाः निदेशिका धृतिः बनर्जी, एक्सआईएम विश्वविद्यालयस्य भुवनेश्वरस्य कुलपतिः फादर के.एस. कैसामिरः तथा जेनरोबोटिक्स इनोवेशन-संस्थायाः मुख्यकार्यकारी-अधिकारी विमल गोविन्द एम.के. च सम्मिलिताः।

तदनन्तरं प्रादेशिकसेनायां नियुक्ति-प्रक्रियायाः सूचना प्रदत्ता तथा ‘नो योर टीए’ इति चलचित्रं प्रदर्शितम्।

द्वितीयायां परिचर्चायां पर्यावरणसम्बद्धेषु, शासनसम्बद्धेषु सामाजिकविषयेषु च चर्चा अभवत्। अस्यां मेघालयलोकायुक्तस्य अध्यक्षः सी.पी. मराकः, धृतिः बनर्जी तथा पर्यावरण-प्रशासनसम्बद्धा विशेषज्ञा श्रुतिशर्माराणा च सहभागं कृतवन्तः।

कार्यक्रमस्य समये प्रादेशिकसेनायाः सप्तसहयोगिसंस्थानानां च मध्ये सन्धिसम्बन्धिपत्राणाम् औपचारिकम् आदानप्रदानम् अपि अभवत्। तदनन्तरम् आधिकारिकगीतस्य विमोचनं कृतम्।सामरिकविश्लेषकः रक्षाविषयाणां टिप्पणीकारश्च नितिनः ए. गोखले अपि प्रादेशिकसेनायाः भविष्यकालीन-विकासस्य परिवर्तमानस्वरूपस्य च विषये स्वविचारान् प्रस्तुतवान्।

केवाईटीए इत्यस्य प्रदर्शिनी सांस्कृतिक-कार्यक्रमाश्च सामान्यजनानामपि कृते उद्घाटिताः आसन्। बहुसंख्यया नागरिकाः, विद्यालयीयच्छात्राः एनसीसी इत्यस्य कैडेट इत्यादयः च प्रदर्शिनीं दृष्टवन्तः तथा प्रादेशिकसेनायाः क्रियाकलापान् योगदानं च समीपतः ज्ञातवन्तः।

सांस्कृतिककार्यक्रमेषु प्रादेशिकसेनायाः सांस्कृतिकदलैः विविधाः प्रस्तुतयः प्रदत्ताः। अस्य आयोजनस्य माध्यमेन युवजनान् सामान्यजनान् च प्रादेशिकसेनायाः भूमिका, कार्यप्रणाली तथा देशसेवायां तस्याः योगदानं च ज्ञापयितुं प्रयत्नः कृतः।

Hindusthan Samachar / Divya Ranjan