Enter your Email Address to subscribe to our newsletters

दमोहः, 29 अगस्तमासः (हि.स.।
मध्यप्रदेशस्य दमोहजनपदात् मुख्यमन्त्रितीर्थदर्शनयोजनायाः अन्तर्गतं जनपदस्य ६० वर्षेभ्यः अधिकवयस्कानां पात्रवृद्धजनानां कृते कामाख्यादेव्याः दर्शनस्य अवसरः प्राप्स्यते। योजनायाः अन्तर्गतं ७ सितम्बर् २०२६ दिनाङ्के विशेषरेलयानं ४७९ यात्रिभिः सह कामाख्यादेव्याः दर्शनार्थं प्रस्थास्यति। यात्रां सम्पूर्य रेलयानं १२ सितम्बर् दिनाङ्के प्रत्यागमिष्यति।
जिलाधीशः प्रतापनारायणयादवः शनिवासरे अवदत् यत् योजनायाः लाभं ६० वर्षेभ्यः अधिकवयस्काः पात्रवृद्धजनाः प्राप्तुं शक्नुवन्ति। महिलानां कृते वयोमर्यादायां द्विवर्षस्य शिथिलीकरणस्य प्रावधानम् अस्ति। योजनायाः कृते पात्रः आवेदकः आयकरदाता अथवा शासकीयसेवकः न भवेत्।
सः अवदत् यत् ग्रामीणक्षेत्रस्य पात्रवृद्धजनाः स्वीयम् आवेदनपत्रं सम्बन्धितजनपदपञ्चायत्यां समर्पयितुं शक्नुवन्ति, यदा तु नगरीयक्षेत्रस्य आवेदकाः आवेदनपत्रं सम्बन्धितनगरीयनिकाये समर्पयितुं शक्नुवन्ति। आवेदनपत्रस्य समर्पणस्य अन्तिमतिथिः १ सितम्बर् २०२६ निर्धारितास्ति।
जिलाधीशः अवदत् यत् तीर्थयात्रिकाणां भोजनस्य, आवासस्य, यात्रायाः च अन्येषां निर्धारितव्ययानां सहितं समस्तं व्ययं मध्यप्रदेशशासनेन वहिष्यते। तदतिरिक्तं ६५ वर्षेभ्यः अधिकवयस्काः ते वृद्धजनाः, येषां यात्राकाले सहयोगिनः आवश्यकता भवति, ते १८ वर्षात् ५० वर्षपर्यन्तं वयसा युक्तम् एकम् सहायकं स्वेन सह नेतुं शक्नुवन्ति। सहायकस्य यात्रासम्बन्धितं निर्धारितव्ययमपि शासनमेव वहिष्यति।
जिलाधीशः जनपदस्य पात्रवृद्धजनान् आह्वयत् यत् ते निर्धारितसमयसीमायां स्वीयम् आवेदनपत्रं समर्प्य मुख्यमन्त्रितीर्थदर्शनयोजनायाः लाभं गृह्णन्तु तथा च कामाख्यादेव्याः दर्शनं कृत्वा पुण्यलाभं प्राप्नुवन्तु।
---------------
Hindusthan Samachar / Dheeraj Maithani