Enter your Email Address to subscribe to our newsletters


लखनऊ, 30 अगस्तमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः रक्षामन्त्री राजनाथसिंहश्च रविवासरे लखनऊनगरे जिला-लोधी-क्षत्रिय-राजपूतसभया आयोजिते समारोहे 1857 तमे वर्षे अभवत् प्रथमभारतीयस्वातन्त्र्यसंग्रामस्य महानां वीराङ्गनां रानी-अवन्तीबाई-लोधी इत्यस्याः भव्यप्रतिमायाः अनावरणं कृतवन्तौ। सर्वैः अतिथिभिः वीराङ्गनायाः प्रतिमायां पुष्पाञ्जलिः अर्पयित्वा तस्यै श्रद्धाञ्जलिः समर्पिता।
अस्मिन् अवसरे रक्षामन्त्री राजनाथसिंहः अवदत् यत् सर्वप्रथमं अहं वीराङ्गनां अवन्तीबाई-लोधीं नमनं करोमि। अद्य तस्याः प्रतिमायाः लोकार्पणं कृत्वा अहं बहुगौरवान्वितः अनुभवामि। 1857 तमे वर्षे स्वातन्त्र्यस्य प्रथमसंग्रामे तया येन साहसेन आङ्ग्लानां सम्मुखीकरणं कृतम्, तत् भारतीयेतिहासस्य गौरवपूर्णः अध्यायः अस्ति।
सा न केवलम् आङ्ग्लानां विरुद्धं स्वयम् आयुधं गृहीतवती, अपितु समीपस्थान् अन्यान् राज्ञः जमीन्दारांश्च अपि संघर्षाय प्रेरितवती।
रक्षामन्त्री उक्तवान् यत् रानी अवन्तीबाई-लोधी अत्यन्तप्रतिकूलपरिस्थितिषु स्वराज्यस्य शासनसूत्रं गृहीतवती तथा सुशासनस्य कीर्तिमानानि स्थापितवती। यदा आङ्ग्लाः छलपूर्वकं तस्याः राज्यं हर्तुं प्रयत्नं कृतवन्तः, तदा सा नतिं स्वीकर्तुं न सम्मता।
अस्माकं देशस्य वीराङ्गनाभिः रणभूमौ अपि स्वशौर्यं प्रदर्शितम् अस्ति तथा राजपाटे अपि सुशासनस्य नूतनाः कीर्तिमानाः स्थापिताः सन्ति। भारतस्य महिलाः प्रत्येकस्मिन् युगे स्वकीयां क्षमतां सिद्धवत्यः सन्ति। अद्य भारतस्य महिलाः सेना, आरक्षीबलम्, विज्ञानम्, क्रीडा, शिक्षा, प्रशासनम् इत्यादिषु प्रत्येकस्मिन् क्षेत्रे स्वकीयां क्षमतां प्रदर्शयन्ति।
रानी अवन्तीबाई-लोध्याः जीवनं सन्देशं ददाति यत् अन्यायस्य सम्मुखे कदापि न नतितव्यम्। कदापि, केनापि मूल्येन आत्मसम्मानेन सह सम्झौता न कर्तव्यः। यदा मातृभूमेः रक्षणस्य विषयः भवति, तदा स्वसर्वस्वस्य त्यागात् अपि न भीतव्यम्।
तेन उक्तं यत् रानी अवन्तीबाई-लोध्याः एषा प्रतिमा केवलं तस्याः स्मृतिं संरक्षितुं माध्यमं नास्ति। अपितु एषा भाविपीढीभ्यः तस्याः शौर्यस्य, स्वाभिमानस्य, नेतृत्वस्य बलिदानस्य च कथां कथयितुं माध्यमम् अपि अस्ति।
राजनाथसिंहेन उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे अस्माकं सर्वकारेण बाबासाहेब् डॉ. भीमराव-आम्बेडकरस्य सम्बन्धितानि पञ्च स्थानानि ‘पञ्चतीर्थ’ इति रूपेण विकसितानि सन्ति। महूतः मुम्बईपर्यन्तं, लण्डनतः नागपुरपर्यन्तं तथा दिल्लीपर्यन्तं बाबासाहेबस्य जीवनसम्बद्धानि एतानि स्थानानि अद्य प्रेरणातीर्थानि अभवन्।
रानी अवन्तीबाई स्वजीवनं देशाय समर्पितवती। अधुना एषा अस्माकं दायित्वम् अस्ति यत् तस्याः वीरतां तस्याः आदर्शांश्च भाविपीढीपर्यन्तं प्रापयेम। अहं मन्ये यत् एषा प्रतिमा भाविपीढीनां कृते प्रेरणास्रोतः भविष्यति।
भारतस्य महिलाः सेना, आरक्षीबलम्, विज्ञानम्, क्रीडा, शिक्षा, प्रशासनम् इत्यादिषु सर्वेषु क्षेत्रेषु स्वकीयां क्षमतां प्रदर्शयन्ति।
रक्षामन्त्री राजनाथसिंहेन उक्तं यत् भारतीयजनतापक्षस्य सर्वकारस्य मतम् अस्ति यत् भारतं स्वनायकान् ज्ञात्वा तेषां सम्मानं कुर्यात् तथा तेषां विरासतं भाविपीढीपर्यन्तं प्रापयेत्। अस्माकं प्रयासः अस्ति यत् अतीतस्य वीरताकथाभिः वर्तमानाय आत्मविश्वासः प्राप्येत तथा भविष्याय मार्गदर्शनं लभ्येत।
अस्मिन् अवसरे कार्यक्रमे केन्द्रीय-राज्यमन्त्री बी. एल. वर्मा, उपमुख्यमन्त्री बृजेशपाठकः, उत्तरप्रदेशसर्वकारस्य मन्त्री धर्मपालसिंहः तथा राज्यमन्त्री स्वतन्त्रप्रभारः सन्दीपसिंहः, भारतीयजनतापक्षस्य प्रदेशमहामन्त्री शंकरलाल-लोधी, लखनऊभाजपायाः महानगराध्यक्षः आनन्दद्विवेदी तथा जिलाध्यक्षः विजयमौर्यः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani