Enter your Email Address to subscribe to our newsletters

पहलग्रामः, 30 अगस्तमासः (हि.स.)।
पहलगामे लिद्दरनद्यां रविवासरे पवित्रायाः छड़ी मुबारक इत्यस्याः विसर्जनं कृतम्। अनेन अस्य वर्षस्य अमरनाथयात्रायाः पारम्परिकः आध्यात्मिकश्च समापनसमारोहः सम्पन्नः अभवत्। विसर्जनसमारोहः सम्पूर्णेन धार्मिकोत्साहेन श्रद्धाभावेन च सम्पन्नः। अनेन सह सप्ताहान् यावत् प्रवृत्तानां प्रार्थनानाम्, अनुष्ठानानां तथा पवित्रगुहायाः यात्रायाः अनन्तरम् एषा वार्षिकी तीर्थयात्रा पूर्णतां गता।
समारोहस्य दृष्ट्या श्रद्धालूनां सुरक्षां विसर्जनसमारोहस्य च शान्तिपूर्णं आयोजनं सुनिश्चितं कर्तुं लिद्दरनद्याः तटे राज्य-आपदारक्षादलस्य पर्वतीय-उद्धारदलानि सजगानि स्थापितानि आसन्।
भगवतः शिवस्य प्रतीकरूपेण मानिता छड़ी मुबारक अमरनाथयात्रायाः पारम्परिके समापने महत्त्वपूर्णां भूमिकां निर्वहति। पहलगामे तस्याः विसर्जनं वार्षिकयात्रायाः सम्बद्धानां पवित्राणाम् अनुष्ठानानां समापनस्य सूचकं भवति।
विसर्जनेन सह अमरनाथयात्रायाः औपचारिकं समापनम् अभवत्। अनेन अस्य वर्षस्य तीर्थयात्रा तथा कश्मीर-उपत्यकायां तया सम्बद्धाः धार्मिकसमारोहाः अपि सम्पन्नाः अभवन्।
---------------
Hindusthan Samachar / Dheeraj Maithani