Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 30 अगस्तमासः (हि.स.)।
असमस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसर्मा रविवासरे सामाजिकमाध्यमे प्रकाशितेन सन्देशेन अवदत् यत् शनिवासरे शिलाङ्गनगरे स्थिते असमरैजिमेण्टलसेण्टरे एकदिनाय ‘ग्रामवृद्धः’ भवितुं सम्मानः तेन प्राप्तः।
मुख्यमन्त्री अवदत् यत् ‘ग्रामवृद्धः’ इति शब्दं असमरैजिमेण्ट् दीर्घकालात् पूर्णया श्रद्धया सम्मानेन च परम्परारूपेण निर्वहति। असमस्य पूर्वोत्तरभारतस्य च ग्रामेषु ‘ग्रामवृद्धः’ इति शब्दः सामाजिकदृष्ट्या परिचितः महत्त्वपूर्णश्च अस्ति।
तेन उक्तं यत् असमरैजिमेण्टेन अस्य पारम्परिकशब्दस्य सैन्यक्षेत्रे अपि सम्मानपूर्णा परिचितिः प्रदत्ता तथा असमस्य विशिष्टां परम्परां राष्ट्रियस्तरे अन्तर्राष्ट्रीयस्तरे च प्रकाशिता।
मुख्यमन्त्री डॉ. हिमन्तबिस्वसर्मा अवदत् यत् शिलाङ्गनगरे स्थिते असमरैजिमेण्टलसेण्टरे एकदिनाय ‘ग्रामवृद्धः’ भवितुम् अवसरः तस्य कृते अत्यन्तं सौभाग्यस्य सम्मानस्य च क्षणः आसीत्। तेन अस्य स्मरणीयस्य अनुभवस्य कृते असमरैजिमेण्ट् प्रति कृतज्ञता प्रकटिता।
-----------
Hindusthan Samachar / Dheeraj Maithani