Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 30 अगस्तमासः (हि.स.)।
असमस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसर्मा रविवासरे अवदत् यत् प्रत्येकस्य विद्यार्थिनः समानविकासः राज्यसर्वकारस्य प्रमुखप्राथमिकतासु अन्तर्भवति।
मुख्यमन्त्री सामाजिकमाध्यमेन प्रकाशितेन सन्देशेन अवदत् यत् असमे राज्यम् एनडीए त्रि-बिन्दु-शून्यस्य प्रथमेषु शतदिवसेषु राज्यसर्वकारेण दिव्याङ्गेभ्यः दृष्टिबाधितेभ्यश्च छात्रछात्राभ्यः ब्रेलकिट्-प्रदानस्य विषये विशेषं बलं दत्तम् अस्ति।
तेन उक्तं यत् विद्यार्थिभ्यः अध्ययनाय आवश्यकाभिः सर्वाभिः सुविधाभिः सुसज्जितान् कर्तुं तथा तेषां उज्ज्वलभविष्यस्य निर्माणाय सर्वकारस्य प्रयासाः निरन्तरं प्रचलिष्यन्ति।
------------
Hindusthan Samachar / Dheeraj Maithani