Enter your Email Address to subscribe to our newsletters

- गोरखपुरे सततं द्वितीये दिवसे जनतादर्शने मुख्यमन्त्रिणा श्रुताः द्विशतजनानां समस्याः
गोरखपुरम्, 30 अगस्तमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथमहोदयेन रविवासरे सततं द्वितीये दिवसे गोरखनाथमन्दिरे जनसेवायाः नियमितानुष्ठानस्य 'जनतादर्शनस्य' क्रमः अक्षुण्णः रक्षितः। रविवासरेऽपि तेन प्रायः द्विशतजनैः सह साक्षात्कारं कृत्वा तेषां समस्याः श्रुताः समाधानस्य च आत्मीयः विश्वासः दत्तः। तेन जनेभ्यः उक्तं यत् मा व्याकुलाः भवत, प्रत्येकायाः शिकायतायाः प्रभावशाली निस्तारणं कारयिष्यते इति। अस्मिन् काले मुख्यमन्त्रिणा अधिकारिणः निर्दिष्टाः यत् जनतायाः समस्यानां समाधानं शीघ्रतया पारदर्शितया च क्रियताम् इति। अत्र कस्याश्चिदपि प्रकारस्य उपेक्षायाः सहनं न भविष्यति।
रविवासरे गोरखनाथमन्दिरपरिसरस्य महन्तदिग्विजयनाथस्मृतिभवनस्य बहिः आयोजिते जनतादर्शने कुर्सीषु उपवेशितान् जनान् प्रति मुख्यमन्त्री योगी आदित्यनाथः स्वयम् उपगतः एकैकशः सर्वेषां समस्याः श्रुतवान्। तेन प्रायः द्विशतजनैः सह साक्षात्कारः कृतः। तेन सर्वे आश्वासिताः यत् चिन्तायाः आवश्यकता नास्ति, प्रत्येकाय जनाय न्यायः प्रापयिष्यते इति। मुख्यमन्त्रिणा सर्वेषां प्रार्थनापत्राणि सम्बद्धेभ्यः अधिकारिभ्यः निर्दिश्य त्वरितनिस्तारणस्य निर्देशाः दत्ताः। तेन अधिकारिभ्यः उक्तं यत् केनापि सह अन्यायः न भवेत् इति। प्रत्येकेन पीडितेन सह संवेदनशीलं व्यवहारम् अङ्गीकृत्य तस्य साहाय्यं कर्तव्यम्। तेन अधिकारिभ्यः इदमपि निर्दिष्टं यत् कस्यचित् भूमौ अवैधाधिकारं कुर्वन्तः, दुर्बलान् उच्छेदयन्तः च कदापि न क्षन्तव्याः इति। तेषां विरुद्धं कठोरा विधिसम्मता कार्यवाही क्रियताम्।
जनतादर्शने बहवः जनाः चिकित्सार्थम् आर्थिकसाहाय्यस्य प्रार्थनां कृत्वा आगताः आसन्। मुख्यमन्त्री योगी तान् आश्वासितवान् यत् शासनं चिकित्सार्थं पूर्णं साहाय्यं करिष्यति इति। तेषां प्रार्थनापत्राणि अधिकारिभ्यः हस्तगतं कृत्वा मुख्यमन्त्रिणा निर्देशः दत्तः यत् चिकित्सासम्बद्धस्य आगणनस्य (इस्टीमेटस्य) प्रक्रिया शीघ्रातिशीघ्रं पूर्णां कृत्वा शासने उपलब्धं कार्यताम् इति। मुख्यमन्त्रिणा जनतादर्शने परिजनैः सह आगतान् बालकान् प्रति तेषां अध्ययनविषये पृष्टम्। तान् सम्यक् अध्ययनाय प्रेरयन् चॉकलेटं दत्तवान्।
भोलुं दुलारयन् मुख्यमन्त्री उक्तवान्, कथं सदा क्रोधे तिष्ठति
गोरखनाथमन्दिरे निवाससमये रविवासरे प्रातःकाले जनतादर्शनं विधाय जनसेवां कृत्वा च मुख्यमन्त्रिणा योगिना आदित्यनाथेन स्वस्य पारम्परिकदिनचर्यानुसारं मन्दिरस्य गोशालां गत्वा गोसेवा अपि कृता। मन्दिरस्य गोशालायां रुष्ट इव दृश्यमानं भोलुनामकं नन्दिनं मुख्यमन्त्रिणा योगिना स्नेहभावेन विशेषतः दुलारितम्। तेन हस्ते गुडरोटिकां गृहीत्वा भोलुम् आहूतं, उक्तं च कथं सदा क्रोधे तिष्ठति इति। गोसेवाकाले मुख्यमन्त्रिणा भोलुं तथा अन्यगोवंशं गाश्च रोटिकागुडाभ्यां भोजितवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani