Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 30 अगस्तमासः (हि.स.)। उपराष्ट्रपतिः सी. पी. राधाकृष्णनः सोमवासरे लक्षद्वीपे सजावटीमत्स्यपालनस्य विस्ताराय रणनीतिककार्ययोजनां “मिशन रङ्गीन मत्स्य 2031” इति नाम्ना विमोचयिष्यति।
केन्द्रीयमत्स्यपालन-पशुपालन-डेयरीमन्त्रालयस्य अनुसारम् अयं कार्यक्रमः लक्षद्वीपस्य अगत्ती इत्यत्र मन्त्रालयस्य पक्षतः आयोजितः भविष्यति। एषा रणनीतिककार्ययोजना सजावटीमत्स्यपालनस्य सम्पूर्णमूल्यशृङ्खलायां वैज्ञानिकप्रबन्धनाय, जैवसुरक्षायै, उच्चगुणवत्तायै नियामकानुपालनाय च एकरूपां रूपरेखां प्रदास्यति।
केन्द्रसर्वकारः मत्स्यपालनक्षेत्रे एकीकृतं मूल्यशृङ्खलाधारितं च विकासं प्रोत्साहयितुं समूहाधारितदृष्टिकोणम् अवलम्बते। अस्य अनुरूपं लक्षद्वीपं समुद्रीशैवालस्य कृषेः, प्रसंस्करणस्य, मूल्यवर्धनस्य तथा विपणिसम्पर्कस्य च प्रोत्साहनाय समर्पितसमुद्रीशैवालसमूहरूपेण अधिसूचितम् अस्ति।
मानकसञ्चालनप्रक्रियाः अर्थात् एसओपी स्वास्थ्यप्रबन्धनसम्बद्धाः, परिवहनसम्बद्धाः व्यापारसम्बद्धाश्च प्रक्रियाः मानकीकरिष्यन्ति। अनेन सम्पूर्णे देशे कार्यप्रणालीषु एकरूपता सुनिश्चिताः भविष्यति तथा उत्तमकार्यप्रणालीनां स्वीकरणं प्रोत्साहितं भविष्यति।
एताः पहलाः हितधारकाणां क्षमतां सुदृढीकर्तुं, उत्पादानां गुणवत्तायां जैवसुरक्षामानकेषु च सुधारं कर्तुं, प्रमाणीकरणस्य विपण्यप्रवेशस्य च सुगमीकरणे अपि सहायकाः भविष्यन्ति।
अस्मिन् अवसरे मन्त्रालयस्य राज्यमन्त्री राजीवरञ्जनसिंहः, राज्यमन्त्री प्रो. एस. पी. सिंहबघेलः तथा लक्षद्वीपस्य प्रशासकः प्रफुल्लखोड़ापटेलः, सर्वकारस्य मत्स्यपालनविभागस्य, लक्षद्वीपसर्वकारस्य, मत्स्यपालनसमूहस्य, सम्बन्धितमन्त्रालयानां विभागानां च प्रतिनिधयः समेत्य अनेकाः मत्स्यपालकाः मत्स्यजीविनश्च उपस्थिताः भविष्यन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani