इतिहासस्य पृष्ठेषु ३१ अगस्तमासः - अद्यैव दिने ‘राज्यपुनर्गठन-अधिनियमः’ पारितः
स्वतन्त्रभारतस्य एकीकरणस्य दिशि ३१ अगस्तमासस्य दिनं इतिहासे स्वर्णाक्षरैः अङ्कितमस्ति। स्वातन्त्र्यप्राप्तेः अनन्तरं भारतस्य पुरतः देशस्य विविधतां एकतायाः सूत्रेण आबद्धां स्थापयितुं महती समस्या आसीत्। देशीयराज्यानाम् एकीकरणा-नन्तरं भाषायाः आधारेण प
1eff6a8a5447319cbb16d9b546ce4ce4_1769976334.jpg


स्वतन्त्रभारतस्य एकीकरणस्य दिशि ३१ अगस्तमासस्य दिनं इतिहासे स्वर्णाक्षरैः अङ्कितमस्ति। स्वातन्त्र्यप्राप्तेः अनन्तरं भारतस्य पुरतः देशस्य विविधतां एकतायाः सूत्रेण आबद्धां स्थापयितुं महती समस्या आसीत्। देशीयराज्यानाम् एकीकरणा-नन्तरं भाषायाः आधारेण पृथक्-पृथक् राज्यनिर्माणस्य याचना तीव्रतरा अभवत्। एषा एव याचना देशस्य प्रशासनिकं राजनैतिकं च मानचित्रं नवतया निर्धारितुं प्रक्रियाम् आरब्धवान्।

अस्मिन् विषये जवाहरलालनेहरूः, सरदारवल्लभभाईपटेलः, पट्टाभि-सीतारामय्या च इत्येतेषां जे.वि.पी.-समितिः निर्मिता। समितिः तत्कालं भाषायाः आधारेण राज्यनिर्माणस्य समर्थनं न कृतवती, अपि तु राष्ट्रियैकतायाः प्राथमिकतां प्रतिपादितवती।

अनन्तरं न्यायमूर्तेः एस.के. धरस्य अध्यक्षतायां आयोगः गठितः, येन राज्यपुनर्गठनाय मुख्यतः प्रशासनिकम् आधारम् उचितं मन्यते स्म। किन्तु राज्यपुनर्गठनस्य याचना निरन्तरं वर्धमानः अभवत्। ततः दिसम्बर-मासे १९५३ तमे वर्षे फजल अली-महोदयस्य अध्यक्षतायां राज्यपुनर्गठनायोगः गठितः।

आयोगेन देशस्य भाषिक-सांस्कृतिक-प्रशासनिकपरिस्थितीनाम् अध्ययनं कृत्वा १९५५ तमे वर्षे स्वप्रतिवेदनं समर्पितम्। तस्याः अनुशंसानां विषये विचारं कृत्वा संसद् १९५६ तमे वर्षे राज्यपुनर्गठन-अधिनियमं पारितवती।

महत्त्वपूर्णाः घटनाः

१८८१ — अमेरिकादेशे प्रथमवारं टेनिस-क्रीडायाः प्रतियोगिता आयोजिता।१९१९ — अमेरिकीय-साम्यवादी-दलस्य गठनम् अभवत्।१९२० — अमेरिकादेशस्य डेट्रॉइट्-नगरे रेडियोमाध्यमेन प्रथमवारं वार्ताः प्रसारिताः।१९५६ — भारतस्य तत्कालीनराष्ट्रपतिना डॉ. राजेन्द्रप्रसादेन राज्यपुनर्गठन-विधेयकं स्वीकृतम्।१९५७ — मलेशियादेशः ब्रिटेनदेशात् स्वातन्त्र्यं प्राप्तवान्।१९५९ — अमेरिकीय-बेसबॉल-क्रीडकः सैण्डी कुफैक्स राष्ट्रिय-लीग-क्रीडायां नूतनं कीर्तिमानम् अस्थापयत्।१९६२ — कैरिबियन्-प्रदेशस्य टोबैगो-त्रिनिदाददेशौ ब्रिटेनदेशात् स्वातन्त्र्यं प्राप्तवन्तौ।१९६४ — कैलिफोर्निया-प्रदेशः आधिकारिकरूपेण अमेरिकादेशस्य सर्वाधिकजनसङ्ख्यायुक्तः प्रदेशः अभवत्।१९६८ — भारतस्य द्विचरणीय-राउण्डिङ्ग-रॉकेट् ‘रोहिणी-एम.एस.वि.-१’ इत्यस्य सफलं प्रक्षेपणम् अभवत्।१९८३ — भारतस्य ‘इन्सैट-१ बी’ उपग्रहः अमेरिकादेशस्य अन्तरिक्षयानात् ‘चैलेन्जर’ इत्यस्मात् प्रक्षेपितः।१९९० — पूर्व-जर्मनी-पश्चिम-जर्मनीदेशयोः राजनैतिक-नैयारिकव्यवस्थयोः समन्वयार्थं सन्धिः हस्ताक्षरिता।१९९१ — उज़्बेकिस्तान-किर्गिस्तानदेशौ सोवियतसङ्घात् स्वातन्त्र्यस्य घोषणां कृतवन्तौ।१९९३ — रूसदेशः लिथुआनियादेशात् स्वकीयान् अन्तिमसैनिकान् प्रत्याहृतवान्।१९९५ — एम्नेस्टी इन्टरनेशनल-संस्थया प्रथमवारं चीनदेशे मानवाधिकारसम्बद्धे विषये आपत्तिः प्रकटिता।१९९६ — ब्रिटेनस्य लेबर-दलेनापि भारतस्य अनुरूपं सी.टी.बी.टी.-सन्धेः तस्य प्रावधानस्य विरोधः कृतः, यस्यानुसारं निरस्त्रीकरणसम्मेलनस्य सदस्यदेशानां सन्धौ हस्ताक्षरकरणम् आवश्यकम् आसीत्।१९९७ — ब्रिटेनस्य राजकुमारी, राजकुमार-चार्ल्सस्य पूर्वपत्नी च डायना पेरिस-नगरे कारयानदुर्घटनायां मृत्युमुपगता।१९९८ — राष्ट्रपतिना येल्तसिनेन नियुक्तस्य प्रधानमन्त्रिण: विक्टर-चेर्नोमीर्दिनस्य नियुक्तिं रूसी-संसदः निम्नसदनं ड्यूमा च अस्वीकृतवती।१९९८ — उत्तरकोरियादेशेन जापानदेशस्योपरि बैलिस्टिक्-क्षेपणास्त्रं प्रक्षिप्तम्।१९९९ — पूर्व-तिमोरस्य स्वातन्त्र्यार्थं शान्तिपूर्णरूपेण सम्पन्ने जनमते संयुक्तराष्ट्रसङ्घेन पश्चिमदेशैश्च सन्तोषः प्रकटितः।२००२ — पाकिस्तानस्य पूर्वप्रधानमन्त्री नवाजशरीफः स्वीयं नामाङ्कनपत्रं प्रत्याहृतवान्।२००४ — इटलीदेशीयः जनरल् गिदो पामेरी भारत-पाकिस्तानयोः संयुक्तराष्ट्रसङ्घस्य पर्यवेक्षकसमूहस्य एकवर्षीयकालाय प्रधानसैन्यपर्यवेक्षकः नियुक्तः।२००५ — इराकस्य राजधानी बगदादनगरे धार्मिकावसरे फिदायीन्-आक्रमणस्य भयेन उत्पन्ने कोलाहले ८१६ जनाः मृताः।२००७ — ब्रिटेनदेशे राजकुमारी डायनायाः दशमी पुण्यतिथिः आचरिता।२००८ — सर्वकारेण अमरनाथभूमिविवादस्य समाधानं कृतम्।२००९ — जनता-दल(यूनाइटेड्)-दलस्य नवदिल्ली इत्यत्र आयोजिते राष्ट्रियपरिषत्सम्मेलने शरदयादवः पुनः सर्वसम्मत्या दलस्य अध्यक्षः निर्वाचितः। सः २००६ तमात् वर्षात् अस्मिन् पदे नियुक्तः आसीत्।२००९ — भारतस्य समाजसेवकः दीपजोशी इत्यादयः एशियादेशस्य षट् व्यक्तित्वानि वर्ष २००९ तमस्य ‘रेमन-म्याग्सेसे-पुरस्कारेण’ ३१ अगस्तमासे मनीलानगरे सम्मानितानि।

जन्म

१८७१ — सैयदहसनइमामः — भारतीय-राष्ट्रीय-काङ्ग्रेसस्य पूर्वाध्यक्षः।१९१९ — अमृताप्रीतम: — प्रसिद्धा कवयित्री, उपन्यासकारा निबन्धकारा च।१९४० — शिवाजी सावन्तः — मराठीभाषायाः प्रसिद्धः साहित्यकारः।१९६२ — पल्लमराजू — प्रसिद्धः राजनीतिज्ञः।१९६३ — ऋतुपर्णो घोषः — बङ्गालीचलचित्राणां प्रसिद्धः निर्देशकः, लेखकः अभिनेता च।

निधनम्

१४२२ — इङ्ग्लैण्डदेशस्य राजा हेनरी पञ्चमः दिवङ्गतः।१९८२ — गोपालस्वरूपपाठकः — भारतस्य भूतपूर्वः उपराष्ट्रपतिः।१९९५ — बेअन्तसिंहः — पंजाबस्य भूतपूर्वः मुख्यमन्त्री।१९९७ — राजकुमारी डायना दिवङ्गता।२००३ — विजयशङ्करमल्लः — एतेन भारतेन्दुयुगस्य गद्यं “हंसमुखगद्यम्” इति संज्ञया अभिहितम्।२०१६ — कश्मीरीलालजाकिरः — पद्मश्रीपुरस्कारेण सम्मानितः प्रख्यातः उर्दूकविः।२०२० — प्रणबमुखर्जी — भारतस्य त्रयोदशः राष्ट्रपतिः, भारतीय-राष्ट्रीय-काङ्ग्रेसस्य प्रमुखनेता च।

Hindusthan Samachar / Divya Ranjan