धर्मस्य प्रयोगः अमानवीय व्यवहाराय उचिततया प्रमाणनीयः कर्तुं न शक्यते- धर्मगुरूः
नव दिल्ली/न्यूयॉर्कम्, 30 अगस्तमासः (हि.स.)। न्यूयॉर्कनगरे वैश्विकतनावहिंसाध्रुवीकरणयोः मध्ये धार्मिकनेतॄणां पञ्चसूत्रीयकार्ययोजना अमेरिकादेशस्य न्यूयॉर्कनगरस्य मैनहट्टनक्षेत्रे ‘एहेड फोरम’ इत्यस्य आयोजनेन सम्पन्ने ‘यूनिवर्सल ऑननेस सेलिब्रेशन’
न्यूयॉर्क के मैनहट्टन में धर्मगुरुओं के साथ अन्य लोग मौजूद।


नव दिल्ली/न्यूयॉर्कम्, 30 अगस्तमासः (हि.स.)।

न्यूयॉर्कनगरे वैश्विकतनावहिंसाध्रुवीकरणयोः मध्ये धार्मिकनेतॄणां पञ्चसूत्रीयकार्ययोजना

अमेरिकादेशस्य न्यूयॉर्कनगरस्य मैनहट्टनक्षेत्रे ‘एहेड फोरम’ इत्यस्य आयोजनेन सम्पन्ने ‘यूनिवर्सल ऑननेस सेलिब्रेशन’ इति कार्यक्रमे विश्वस्य विभिन्नैः धार्मिकनेतृभिः स्पष्टतया उक्तं यत् धर्मस्य उपयोगः द्वेषस्य, अपमानस्य, अमानवीयव्यवहारस्य अथवा हिंसायाः औचित्यप्रतिपादनाय कर्तुं न शक्यते। अस्मिन् कार्यक्रमे राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकः मोहनभागवत् अपि सम्मिलितः अभवत्।

न्यूयॉर्कनगरस्य मैनहट्टनक्षेत्रे वैश्विकस्तरे वर्धमानानां तनावानां, हिंसायाः तथा ध्रुवीकरणस्य मध्ये आयोजिते ‘एकं विश्वम्, एका मानवता’ इति शिखरसम्मेलने आह्वानपूर्वकं स्वीकृते प्रस्तावपत्रे धार्मिकनेतारः प्रत्येकस्य समुदायस्य गरिमायाः सुरक्षायाश्च कृते स्थातुं स्वप्रतिबद्धतां प्रकटितवन्तः। तैः उक्तं यत् श्रद्धा यद्यपि उपचारस्य मेलमिलापस्य च माध्यमरूपेण कार्यं कृतवती अस्ति, तथापि तस्याः दुरुपयोगः विभाजनस्य हिंसायाश्च औचित्यप्रतिपादनाय अपि कृतः अस्ति।

अस्मिन् प्रसङ्गे पञ्चसूत्रीयं प्रस्तावपत्रं प्रकाशितम्। तत्र प्रथमः सन्देशः समुदायानाम् आत्मपरीक्षणम् इति अस्ति। अस्मिन् सर्वप्रथमं स्वकीयसमुदायानां शिक्षाणां आचरणस्य च समीक्षा करणीयेत्युक्तम्। धर्मस्य नाम्ना घृणायाः, अमानवीकरणस्य हिंसायाश्च पूर्णतया अस्वीकारः करणीयः तथा भिन्नविचाराणां प्रति सम्मानस्य भावना शिक्षणीया इति प्रस्तावितम्।

द्वितीयम्—संकटग्रस्तानाम् अन्यसमुदायानां साहाय्यम्। अस्मिन् कस्यचित् समुदायस्य अथवा व्यक्तेः लक्ष्यीकरणे तस्य पक्षे स्थातुं प्रतिज्ञा कृता अस्ति। प्रस्तावे उक्तं यत् अन्यस्य दुःखस्य केवलम् एतस्मात् कारणात् उपेक्षा कर्तुं न शक्यते यत् सः अस्माकं स्वकीयः नास्ति।

तृतीयम्—संवादः युवजनानां च सहभागिता। अस्मिन् कस्यापि त्रासदीपूर्णघटनायाः प्रतीक्षां विना धार्मिकानां सांस्कृतिकानां च सीमां अतिक्रम्य समुदायानां, विशेषतः युवजनानां, परस्परं समागमः करणीयः इति उक्तम्। अस्य उद्देश्यं पूर्वाग्रहान् दूरीकर्तुं मानवीयस्तरे सम्बन्धानां निर्माणं च अस्ति।

चतुर्थम्—वयं सम्मिल्य सेवाकार्यं करिष्यामः। प्रस्तावे उक्तं यत् विस्थापितानां, पीडितानां, रोगिणां तथा उपेक्षितानां कृते सर्वैः मिलित्वा कार्यं करणीयम्। यशः श्रेयश्च प्राप्तुं लालसां विना पूर्वमेव प्रचलितानां सेवाकार्याणां समर्थनमपि अस्य अन्तर्गतं भवति।

पञ्चमम्—वयं भविष्यस्य प्रति स्वदायित्वं स्वीकरिष्यामः। प्रस्तावे युद्धस्य, शान्तेः, दरिद्रतायाः उन्मूलनस्य तथा कृत्रिमबुद्धिमत्तायाः इत्यादीनां उद्भवमानप्रौद्योगिकीनां सन्दर्भे नैतिकप्रभावस्य विचारः करणीयः इति उल्लेखितम्। प्रौद्योगिक्या मानवगरिमा, सत्यं स्वतन्त्रता च सुदृढीकर्तव्या इति तत्र प्रतिपादितम्।

सम्मेलने नेतारः रेखाङ्कितवन्तः यत् किमपि वैश्विकदस्तावेजं तदैव सार्थकं भवति, यदा तत् स्थानीयस्तरे वास्तविककार्येषु परिणमति। अस्य कृते सर्वेभ्यः प्रतिनिधिभ्यः आह्वानं कृतं यत् ये समूहाः सामान्यतः परस्परं संवादं न कुर्वन्ति, तान् एकस्मिन् मञ्चे आनयन्तु। विभिन्नश्रद्धानां संस्कृतीनां च जनैः सह मिलित्वा सेवाकार्यं कुर्वन्तु।

सन्देशे उक्तं यत् धार्मिकनेतारः एकाकिनः सर्वान् युद्धान् अन्यायान् वा समाप्तुं न शक्नुवन्ति। किन्तु ते शक्तिहीनाः अपि न सन्ति। साझा-गरिमायाः परस्परसम्बद्धस्य भविष्यस्य च निर्माणाय प्रत्येकं समुदायं स्वस्तरे साहसपूर्णान् उत्तरदायित्वपूर्णान् च पदक्षेपान् स्वीकर्तुं प्रवर्तितव्यम्।

उल्लेखनीयं यत् अस्मिन् कार्यक्रमे अमेरिकादेशस्य ३९ राज्येभ्यः ८५३ नगरेभ्यः आगताः ६००० प्रतिनिधयः, विभिन्नविश्वविद्यालयानां २५० अधिकाः छात्राः तथा २५० अधिकाः संस्थाः भागं गृहीतवन्तः। कार्यक्रमे ३० देशेभ्यः आगतैः १८० धार्मिकनेतृभिः भविष्यस्य प्रति उत्तरदायित्वनिर्धारणाय पञ्चसूत्रीयकार्ययोजनायाः घोषणा कृता।

---------------

Hindusthan Samachar / Dheeraj Maithani