ओडिशायाः पूर्व मंत्री अथ च वरिष्ठ राजनेता डंबरू माझेः 86 वर्षाणाम् आयुषि निधनम्
भुवनेश्वरम्, ३० अगस्तमासः (हि.स.)। ओडिशायाः पूर्वमन्त्री वरिष्ठराजनेता च डम्बरू माझी इत्यस्य रविवासरे निधनम् अभवत्। सः ८६ वर्षीयः आसीत्। माझीवर्यस्य नबरंगपुरजनपदमुख्यालयस्य चिकित्सालये वयोसम्बद्धानां स्वास्थ्यसमस्यानां चिकित्सां प्रचलति स्म। तत्र प
डंबरू माझी  । फाइल फोटो


भुवनेश्वरम्, ३० अगस्तमासः (हि.स.)। ओडिशायाः पूर्वमन्त्री वरिष्ठराजनेता च डम्बरू माझी इत्यस्य रविवासरे निधनम् अभवत्। सः ८६ वर्षीयः आसीत्। माझीवर्यस्य नबरंगपुरजनपदमुख्यालयस्य चिकित्सालये वयोसम्बद्धानां स्वास्थ्यसमस्यानां चिकित्सां प्रचलति स्म। तत्र प्रातः प्रायः ५ वादने सः अन्तिमश्वासं त्यक्तवान्।

डम्बरू माझी क्षेत्रस्य प्रमुखराजनैतिकनेतृषु अन्यतमः आसीत्। स्वस्य दीर्घे राजनैतिकजीवने सः १९६७ तमात् १९९० तमं वर्षं यावत् विभिन्नसमयेषु ओडिशासर्वकारे मन्त्रीरूपेण दायित्वं निर्वहन् विभिन्नविभागानां कार्यभारं अपि दृष्टवान्।

डम्बरू माझी पञ्चवारं ओडिशाविधानसभायै निर्वाचितः आसीत्। सः १९६७, १९७१ तथा १९८५ तमे वर्षे डाबुगांव-विधानसभाक्षेत्रस्य प्रतिनिधित्वं कृतवान्। १९७७ तथा १९८० तमे वर्षे च कोंडिंगा-विधानसभाक्षेत्रात् विधायकत्वेन निर्वाचितः अभवत्।

दशकानां दीर्घे राजनैतिकजीवने माझीवर्येन अविभक्त-कोरापुटक्षेत्रस्य राजनीतौ महत्त्वपूर्णा भूमिका निर्व्यूढा। सः क्षेत्रस्य प्रमुखजननेतृषु स्वकीयां विशिष्टां परिचितिं निर्मितवान्।

डम्बरू माझी इत्यस्य निधनस्य वार्तया राजनैतिकेषु सामाजिकेषु च क्षेत्रेषु शोकस्य वातावरणं व्याप्तम्। विभिन्नराजनैतिकदलानां नेतारः, समर्थकाः शुभचिन्तकाश्च तस्य निधनं प्रति दुःखं व्यक्तवन्तः तथा सार्वजनिकजीवने तेन दीर्घकालं यत् योगदानं प्रदत्तं तस्य स्मरणं कृतवन्तः।

माझीवर्यस्य निधनं क्षेत्रस्य राजनीतिक्षेत्राय महती क्षतिः इति मन्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani