आधुनिकतकनीक्या सह कुशल मानव संसाधनविकसितीकरणं समयस्य आवश्यकता : राजनाथ सिंहः
उद्योगानां आवश्यकतानुरूपं प्रशिक्षणं भवेत्, प्रशिक्षुत्वस्य रोजगारस्य च स्पष्टः मार्गः निर्मीयताम् : जयन्तचौधरी। उत्तरप्रदेशस्य समीपे विशालः बाजारः, विपुला युवाशक्तिः दक्षं मानवसंसाधनं च : ब्रजेशपाठकःउद्योगजगतः अपेक्षाः पूरयितुं शासनं प्रतिबद्धम्
कार्यक्रम के दौरान रक्षा मंत्री एवं अन्य मंत्रीगण


रक्षा मंत्री राजनाथ सिंह की उपस्थिति में समझौता ज्ञापित होते


उद्योगानां आवश्यकतानुरूपं प्रशिक्षणं भवेत्, प्रशिक्षुत्वस्य रोजगारस्य च स्पष्टः मार्गः निर्मीयताम् : जयन्तचौधरी।

उत्तरप्रदेशस्य समीपे विशालः बाजारः, विपुला युवाशक्तिः दक्षं मानवसंसाधनं च : ब्रजेशपाठकःउद्योगजगतः अपेक्षाः पूरयितुं शासनं प्रतिबद्धम् : कपिलदेवाग्रवालः।

लखनऊ, अगस्तमासः, ३० दिनाङ्कः। उत्तरप्रदेशे कौशलविकासम्, औद्योगिकावश्यकताः युवानां कृते रोजगारावसराः च परस्परं संयोजयितुं रविवासरे लखनऊनगरस्य विभूतिखण्डे गोमतीनगरे ताजपैलेस इति स्थाने प्रधानमन्त्री-सेतु-उद्योगसम्मेलनम्—उत्तरप्रदेशसहभागितायाः आयोजनं कृतम्।

कार्यक्रमं सम्बोधयन् रक्षामन्त्री राजनाथसिंहः अवदत् यत् अद्य कस्यापि देशस्य विकासाय मानवसंसाधनं सर्वाधिकं महत्त्वपूर्णम् आधारम् अस्ति। भारतं वैश्विकविनिर्माणस्य प्रौद्योगिक्याश्च महाशक्तिं कर्तुं देशस्य यात्रा दक्षमानवसंसाधनस्य उपलब्धतायां निर्भरिष्यति। कश्चित् अपि देशः विश्वस्य अत्याधुनिकयन्त्राणि क्रेतुं शक्नोति, किन्तु यावत् तानि कुशलतया सञ्चालयितुं प्रशिक्षितं मानवसंसाधनं न भविष्यति, तावत् प्रौद्योगिक्याः पूर्णलाभः प्राप्तुं न शक्यते।

सः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी भारतस्य जनसांख्यिकशक्तिं जनसांख्यिकलाभांशे उत्पादकलाभांशे च परिवर्तयितुं निरन्तरं कार्यं कुर्वन् अस्ति। रक्षाविनिर्माणम्, अन्तरिक्षयानविज्ञानम्, इलेक्ट्रॉनिकी, ड्रोन, रोबोटिकी, सूक्ष्मयान्त्रिकी स्वचालनं च इत्यादिषु क्षेत्रेषु तीव्रगत्या जायमानानां प्रौद्योगिकीयपरिवर्तनानां कृते भविष्यदनुरूपं दक्षं कार्यबलम् आवश्यकम् अस्ति।

राजनाथसिंहः अवदत् यत् प्रधानमन्त्री-सेतु-योजनायाः माध्यमेन सर्वकारीयाः औद्योगिकप्रशिक्षणसंस्थाः आधुनिकसुविधाभिः, प्रयोगशालाभिः, अङ्कीयशिक्षणव्यवस्थया नवीनतमपाठ्यक्रमेण च समन्विताः क्रियन्ते। सः उत्तरप्रदेशस्य विनिर्माणस्य रक्षाउत्पादनस्य च केन्द्ररूपेण उदयस्य तथा रक्षौद्योगिकगलियारेण सह तस्य प्रगतिः प्रशंसितवान्। उद्योगजगतः आह्वानं कुर्वन् सः अवदत् यत् ते प्रधानमन्त्री-सेतुयोजनां केवलं सर्वकारीययोजनां न मन्येरन्, अपितु साझराष्ट्रियमिशनरूपेण पश्यन्तु तथा रक्षाक्षेत्रस्य सार्वजनिकोपक्रमाः अस्यां योजनायां सक्रियभागीदारीं निर्वहन्तु। तेन स्पष्टं कृतं यत् प्रधानमन्त्री-सेतुयोजनायाः सफलतायाः मूल्याङ्कनं केवलं स्थापितयन्त्रैः न, अपितु तया सृजितैः रोजगारावसरैः करणीयम्।

भारतसर्वकारस्य कौशलविकासोद्यमितामन्त्रालयस्य राज्यमन्त्री स्वतन्त्रप्रभारः जयन्तचौधरी अवदत् यत् प्रधानमन्त्री-सेतुः सर्वकारस्य, उद्योगस्य प्रशिक्षणसंस्थानां च मध्ये नूतनसाझेदारीप्रतिरूपं प्रस्तुतयति। अस्य उद्देश्यम् अस्ति प्रशिक्षणस्य रोजगारस्य च मध्ये विद्यमानं अन्तरं पूरयितुम्। सः उद्योगानाम् आह्वानं कृतवान् यत् ते केवलं संस्थागतसामाजिकदायित्वस्य उपक्रमेषु सीमिताः न भवन्तु, अपितु औद्योगिकप्रशिक्षणसंस्थानां समूहानां विकासे, शासनव्यवस्थायां सञ्चालनव्यवस्थायां च सक्रियदायित्वं स्वीकुर्वन्तु तथा औद्योगिकप्रशिक्षणसंस्थानां उत्तरदायित्वं निर्वहन्तु।

उपमुख्यमन्त्री ब्रजेशपाठकः अवदत् यत् उत्तरप्रदेशे उद्योगानां कृते अनुकूलं वातावरणम्, विशालः बाजारः, विपुला युवाशक्तिः तथा तकनीकीदृष्ट्या सक्षमं मानवसंसाधनं उपलब्धम् अस्ति। तेन सम्मेलने भागं गृहद्भ्यः उद्योगेभ्यः राज्यसर्वकारस्य पक्षतः पूर्णसहयोगस्य आश्वासनं प्रदत्तम्।

व्यावसायिकशिक्षा-कौशलविकास-उद्यमिताराज्यमन्त्री स्वतन्त्रप्रभारः कपिलदेवाग्रवालः अवदत् यत् राज्यसर्वकारः उद्योगजगतः सह मिलित्वा युवानां कृते नूतनान् रोजगारावसरान् सृजितुं पूर्णतया प्रतिबद्धः अस्ति। तेन उत्तरप्रदेशे प्रधानमन्त्री-सेतुयोजनायाः अन्तर्गतं चिह्नितानां अष्टसमूहानां द्वात्रिंशत् औद्योगिकप्रशिक्षणसंस्थानां च उल्लेखं कृत्वा कथितं यत् तेषु सप्तसमूहाः अद्य उद्योगसहयोगाय उद्घाटिताः सन्ति। सः अवदत् यत् उद्योगजगतः याः काः अपि अपेक्षाः भविष्यन्ति, ताः पूरयितुं सर्वकारः शतप्रतिशतं प्रयासं करिष्यति।

सम्मेलनस्य समये रक्षाक्षेत्रस्य सामरिकोद्योगानां च प्रतिनिधिभिः अन्तरिक्षयानप्रणाली, पोतनिर्माणम्, इलेक्ट्रॉनिकीनिर्माणम्, सूक्ष्मयान्त्रिकी, रक्षाउत्पादनम्, उन्नतवेल्डिङ्ग्, मेकाट्रॉनिकी, ड्रोनप्रौद्योगिकी च इत्यादिषु क्षेत्रेषु दक्षतन्त्रिज्ञानां वर्धमानां आवश्यकतां रेखाङ्कितम्।

प्रधानमन्त्री-सेतुयोजनायाः प्रमुखविशेषताः

एकस्मिन् केन्द्रभूत-औद्योगिकप्रशिक्षणसंस्थाने चतसृषु सहायक-औद्योगिकप्रशिक्षणसंस्थासु च समन्विते समूहः निर्मातुं शक्यते। अस्मिन् समूहः अधिकतमं द्विशतैकचत्वारिंशत् कोटिरूप्यकाणां निवेशं आकर्षयितुं शक्नोति। तत्र केन्द्रसर्वकारस्य पञ्चाशत्प्रतिशतं, राज्यसर्वकारस्य त्रयस्त्रिंशत्प्रतिशतं तथा उद्योगसहभागिनां सप्तदशप्रतिशतं योगदानं भविष्यति।

समूहसञ्चालनाय प्रस्तावितायां विशेषप्रयोजनसंस्थायां मुख्योद्योगसहभागिभ्यः एकपञ्चाशत्प्रतिशतं स्वामित्वं प्रदत्तम् अस्ति। केन्द्रसर्वकारस्य राज्यसर्वकारस्य च क्रमशः चतुर्विंशतिः दशमलव पञ्च प्रतिशतं स्वामित्वं भविष्यति। सम्प्रति पञ्चसु राज्येषु सप्तसु समूहकेन्द्रेषु स्वीकृताः उद्योगसाझेदारीप्रस्तावाः पञ्चदशशतकोटिरूप्यकाणाम् अधिकस्य निवेशस्य प्रतिनिधित्वं कुर्वन्ति।

कार्यक्रमस्य समये युवानां सशस्त्रसेवासु, पुलिससेवासु अन्यासु च वर्दीधारीषु सेवासु करियराय सज्जीकरणस्य उद्देशेन राष्ट्रियकौशलविकासनिगमस्य लखनऊछावनीमण्डलस्य च मध्ये एकस्मिन् सहमतिज्ञापने हस्ताक्षरं कृतम्। अस्य अन्तर्गतं ‘शौर्य-अकादमी’ इत्यस्य स्थापना करिष्यते।

कार्यक्रमस्य अन्ते व्यावसायिकशिक्षा-कौशलविकासविभागस्य प्रमुखसचिवः डॉ. हरिओमः उपस्थितेभ्यः सर्वेभ्यः अतिथिभ्यः, भारतसर्वकारस्य प्रतिनिधिभ्यः, उद्योगजगतः शिक्षणसंस्थानां च अधिकारिभ्यः धन्यवादं ज्ञापितवान्।

कार्यक्रमे कौशलविकासोद्यमितामन्त्रालयस्य, प्रशिक्षणमहानिदेशालयस्य महानिदेशकः दिलीपकुमारः, संयुक्तसचिवा मानसीसहायठाकुरः, उत्तरप्रदेशसर्वकारस्य प्रमुखसचिवः डॉ. हरिओमः, इन्वेस्टयूपी-संस्थायाः मुख्यकार्यपालकाधिकारी विजयकिरणआनन्दः इत्यादयः उद्योगजगतः, प्रशिक्षणसंस्थानां, शिक्षणसंस्थानां शासनप्रशासनस्य च वरिष्ठाधिकारिणः सम्मिलिताः।

सम्मेलने हिन्दुस्तान एयरोनॉटिक्स लिमिटेड्, भारत इलेक्ट्रॉनिक्स लिमिटेड्, भारत डायनामिक्स लिमिटेड्, ब्रह्मोस एयरोस्पेस्, ट्रूप कम्फर्ट्स लिमिटेड्, एडवांस्ड वेपन्स एण्ड इक्विपमेण्ट इण्डिया लिमिटेड्, ग्लाइडर्स इण्डिया लिमिटेड्, अशोक लेलैण्ड्, राष्ट्रियकौशलविकासनिगमः, टेलिकम्युनिकेशन्स कन्सल्टेन्सी इण्डिया लिमिटेड् तथा पीटीसी इत्यादीनां प्रमुखरक्षाविनिर्माणसङ्गठनानां वरिष्ठनेतृत्वेन सहभागिता कृता। विश्वबैङ्कस्य, उद्योगसङ्घानां अन्येषां च सामरिकहितधारकाणां प्रतिनिधयः अपि सम्मिलिताः।

Hindusthan Samachar / Dheeraj Maithani