Enter your Email Address to subscribe to our newsletters

प्रभावितनागरिकेभ्यः सहायतां प्रदातुं कापि न्यूनता न भवेत् : मुख्यमन्त्री डॉ. यादवः
सतनाजनपदस्य सर्वेषु विद्यालयेषु द्विदिनस्य अवकाशः घोषितः
भोपालम्, ३० अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः रविवासरे प्रातः सतनाजनपदस्य चित्रकूटे अतिवृष्टिप्रभावितानां क्षेत्राणां निरीक्षणं कृतवान्। नागरिकैः सह साक्षात्कारं कृत्वा च तेन सतनाजनपदस्य जनपदप्रशासनाय आवश्यककार्याणां विषये स्पष्टाः निर्देशाः प्रदत्ताः। मुख्यमन्त्री डॉ. यादवः निवाडी-जनपदान्तर्गते ओरछानगरात् दिवसभरं सतनाजनपदप्रशासनात् सहायताकार्याणां विषये सूचनां प्राप्तवान्।
मुख्यमन्त्री डॉ. यादवेन स्पष्टनिर्देशाः प्रदत्ताः यत् जनतायै सहायतां प्रदातुं कापि न्यूनता न भवेत्। सतनाजनपदस्य जनपदाधिकारीणः सूचितं यत् अतिवृष्टेः स्थितिं दृष्ट्वा विद्यार्थिनां सुरक्षायाः ध्यानं कृत्वा जनपदस्य सर्वेषु विद्यालयेषु अगस्तमासस्य ३१ दिनाङ्के सेप्टेम्बर-मासस्य १ दिनाङ्के च अवकाशः घोषितः अस्ति।
मुख्यमन्त्रिणः डॉ. यादवस्य निर्देशानुसारम् अतिवृष्ट्या प्रभावितनागरिकाणां सहायतार्थम् अधिकारिभ्यः त्रिदिनपर्यन्तं चित्रकूटे स्थित्वा आवश्यकसहायता-कार्याणि सुनिश्चितुं क्षेत्रस्य निरन्तरं निरीक्षणं कर्तुं च निर्देशः प्रदत्तः। मुख्यमन्त्री डॉ. यादवः निर्देशितवान् यत् प्रभावितेभ्यः राजस्व-पुस्तक-परिपत्रस्य ६/४ इत्यस्य प्रावधानानुसारं विविधप्रकारस्य हान्यर्थं निर्धारितसहायताराशिः प्रदातुं कार्यं क्रियताम्।
मुख्यमन्त्रिण: डॉ. यादवस्य निर्देशाः
सर्वेषां जलौघप्रभावितनागरिकाणां कृते भोजनं, वस्त्रं, पेयजलं, चिकित्सासहिताः सर्वाः आवश्यकव्यवस्थाः तत्कालं सुनिश्चिताः क्रियन्ताम्।
प्रभावितजनानां समीपम् आवश्यक-सहायतासामग्री प्राप्यताम्। उद्धारित-ग्रामवासिनां कृते अपि शुद्धपेयजलं भोजनं च सुनिश्चितं क्रियताम्।
जलौघेन जातस्य हान्याः आकलनकार्यं समये एव सम्पन्नं क्रियताम्।
जनपदप्रशासनस्य सर्वे सम्बन्धिताः अधिकारिणः प्रभावितक्षेत्रस्य निरन्तरं भ्रमणं कुर्युः, तत्रैव रात्रिनिवासं च कुर्युः। एसडीआरएफ् तथा एनडीआरएफ-संस्थयोः समुचितं सहयोगं प्राप्यताम्।
सर्वेषां प्रभावितानां समीपं शुष्क-खाद्यसामग्री अन्याः आवश्यकाः सहायतासामग्र्यः च प्राप्यन्ताम्।
प्रभावितपरिवारेभ्यः प्रशासनस्य अतिरिक्तं आवश्यकसामग्रीप्रदाने स्वेच्छया सहयोगं कुर्वद्भ्यः सहयोगिभ्यः प्राप्ता सामग्री अपि उपलब्धा कारयितव्या।
स्थानीयवासिभिः सह सम्प्रति चित्रकूटम् आगताः श्रद्धालवः अपि आवश्यकसहायतां प्राप्नुयुः।
Hindusthan Samachar / Divya Ranjan