Enter your Email Address to subscribe to our newsletters

जनप्रतिनिधिभिः अधिकारिभिश्च पुष्प-मालाभिः अभिनन्द्य शुभकामनाभिः सह तीर्थयात्रिण: प्रस्थापिताः
छिन्दवाडा, ३० अगस्तमासः (हि.स.)। मध्यप्रदेशे सञ्चाल्यमानायाः मुख्यमन्त्रिणः तीर्थदर्शनयोजनायाः अन्तर्गतं रविवासरे छिन्दवाडा-रेलस्थानकात् जनपदस्य १९६ तीर्थयात्रिकान् नीत्वा मथुरावृन्दावन-तीर्थस्थलाय विशेषरेलयानं प्रस्थितम्। क्षेत्रीयसांसदः विवेकबण्टीसाहुः अन्ये च जनप्रतिनिधयः हरितध्वजं प्रदर्श्य तीर्थयात्रिणां रेलयानं प्रस्थापितवन्तः।
अस्मिन् अवसरे छिन्दवाडा-पाण्डुर्णासांसदः साहुः छिन्दवाडा-रेलस्थानके तीर्थयात्रिणां पुष्पमालाभिः स्वागतं कृतवान्। सः सर्वेभ्यः ज्येष्ठ-तीर्थयात्रिभ्यः मथुरावृन्दावनस्य पावनतीर्थयात्रायै मङ्गलमयस्य सुखदस्य च यात्रायाः शुभकामनाः प्रदत्तवान्।
अस्मिन् अवसरे सूचितं यत् तीर्थयात्रायां छिन्दवाडाजनपदात् १९६ तीर्थयात्रिकाः, चत्वारः अनुरक्षकाः, एकः चिकित्सकः, एकः औषधनिर्माता तथा पञ्च सुरक्षाकर्मचारिणः यात्रिणां सुविधा-स्वास्थ्य-सुरक्षायै सह प्रस्थिताः। यात्राकाले तीर्थयात्रिकेभ्यः आवश्यकसुविधाः व्यवस्थाश्च उपलब्धाः कारयितुं सम्बन्धितदलमपि तैः सह भविष्यति।
अस्यां विशेषतीर्थयात्रायां छिन्दवाडा-जनपदेन सह सिवनी, पाण्डुर्णा तथा बैतूलजनपदानां तीर्थयात्रिकाः अपि सम्मिलिताः सन्तः मथुरावृन्दावनस्य पावनतीर्थस्थलानां दर्शनाय प्रस्थिताः।
तीर्थयात्रिकाणां प्रस्थानस्य अवसरे अनुविभागीय-राजस्वाधिकारी सुधीरजैनः, उपजनपदाधिकारी प्रभारी-अधिकारी च राहुलकुमारपटेलेन सह सम्बन्धिताः अधिकारिणः कर्मचारिणश्च उपस्थिताः आसन्। जनपदप्रशासनेन तीर्थयात्रिभ्यः सुखदायाः सुरक्षितायाः मङ्गलमयायाश्च यात्रायै शुभकामनाः प्रेषिताः।
Hindusthan Samachar / Divya Ranjan