Enter your Email Address to subscribe to our newsletters

न्यूयॉर्कः, ३० अगस्तमासः (हि.स.)। राष्ट्रियस्वयंसेवकसङ्घस्य सर-सङ्घचालकः मोहनभागवतः अद्य अत्र अवदत् यत् प्रत्येकस्य राष्ट्रस्य सन्देशः, ध्येयं नियतिश्च भवति। भारतस्य नियतिः विश्वं विविधतायाम् एकतायाः बोधं कारयितुम् अस्ति। विविधता एकतां दुर्बलां न करोति, अपि तु ताम् अलङ्करोति।
न्यूयॉर्कस्य मैनहट्टननगरे ‘एहेड् फोरम’-इत्यस्य आयोजनेन आयोजिते ‘यूनिवर्सल् ऑननेस सेलिब्रेशन’-कार्यक्रमे मोहन-भागवतः स्वामीविवेकानन्दस्य विचारान् उद्धृतवान्। सः अवदत्, “स्वामीविवेकानन्दः अवदत् यत् प्रत्येकस्य देशस्य एकः सन्देशः भवति, प्रत्येकस्य देशस्य एकं ध्येयं भवति तथा प्रत्येकं देशस्य एका नियतिः भवति, यां तेन पूर्णां कर्तव्यम्। भारतस्य नियतिः का? भारतस्य कार्यं ‘विविधतायाम् एकता’ इत्यस्य तत्त्वं स्वयम् अवगन्तुं तथा समये समये विश्वमपि तस्य बोधं कारयितुम् अस्ति। वयं एकाः स्मः, विविधतायाः कारणेनैव सा एकता अधिकं सुन्दरी दृश्यते। अतः विविधतायाः उत्सवः आचरणीयः।”
सः अवदत् यत् विविधतायाः उत्सवः आचरणीयः। तस्य सम्मानं करणीयं तथा स्वीकर्तव्यम्। तेन सह जनैः एकतायाः भावनापि स्वान्तरे धारणीया। तस्य मतानुसारं विभिन्नेषु रूपेषु परिचयेषु च विद्यमानेष्वपि एकतायाः भावः वास्तविकः अस्ति।
मोहनभागवतः भारतीयान् स्वीयेन आचरणेन विविधतायाम् एकतायाः सन्देशं प्रदातुम् आहूतवान्। भागवतः अवदत् यत् भारतं विश्वस्य पुरतः ‘विविधतायाम् एकता’ इत्यस्य सन्देशं केवलं भाषणेन वा उपदेशेन वा न स्थापयितव्यम्। भारतीयैः स्वव्यवहारेण आचरणेन च तस्य उदाहरणं प्रस्तुतव्यम्। सः अवदत् यत् एषैव सा दिशा अस्ति, यस्याः माध्यमेन भारतं स्वदायित्वं पूर्णं कर्तुं शक्नोति।
सः अवदत् यत् मनुष्याणां शरीराणि, परिधानानि, उपासनापद्धतयश्च भिन्नाः भवितुम् अर्हन्ति। तथापि एकः स्थायी तत्त्वः सर्वान् परस्परं संयोजयति। सः तस्य उपमां एकेनैव सूत्रेण आबद्धानां मालायाः विभिन्नानां मणीनां रूपेण अकरोत्। तस्य मतानुसारम् एतदेव आत्मतत्त्वं सर्वेषां मध्ये एकतायाः आधारः अस्ति।
भागवतः अवदत् यत् मानवजीवनस्य उद्देश्यं केवलं भौतिकसुखस्य प्राप्तिः नास्ति। भारतीयपरम्परायां जीवनस्य उद्देश्यं सत्यस्य अन्वेषणं मोक्षस्य दिशि च अग्रे गमनम् इति प्रतिपादितम् अस्ति। अस्मिन् विश्वस्य कल्याणाय कार्यकरणमपि सम्मिलितम् अस्ति।
सः धर्मं सन्तुलनं स्थापयितुं समर्थं सिद्धान्तं कथयित्वा तस्य व्याख्यां कृतवान्। तस्य मतानुसारं धर्मः केवलं रिलिजन अथवा उपासनायाः विषयः नास्ति। एषः व्यक्तेः, समाजस्य, पर्यावरणस्य च मध्ये सन्तुलनं स्थापयितुं व्यवस्था अस्ति। सः अवदत् यत् भारतं तामेव अवधारणां स्वीयेन आचरणेन विश्वं प्रति प्रेषयितुम् अर्हति।
उल्लेखनीयं यत् कार्यक्रमे अमेरिकादेशस्य ३९ राज्येभ्यः ८५३ नगरेभ्यश्च आगताः ६,००० प्रतिनिधयः, विभिन्न-विश्वविद्यालयानां २५० तः अधिकाः छात्राः तथा २५० तः अधिकानि सङ्गठनानि भागं गृहीतवन्तः। कार्यक्रमे ३० देशेभ्यः आगतैः १८० धार्मिकनेतृभिः भविष्यं प्रति उत्तरदायित्वं निर्धारयितुं पञ्चसूत्रीय-कार्ययोजनायाः घोषणा कृता। धार्मिकनेतारः स्पष्टतया अवदन् यत् धर्मस्य उपयोगः द्वेषस्य, अपमानस्य, अमानवीयव्यवहारस्य वा हिंसायाः औचित्यप्रतिपादनाय कर्तुं न शक्यते। ‘एकं विश्वम्, एका मानवता’ इत्यस्य आह्वानेन पारिते प्रस्तावेषु कस्यापि समुदायस्य गरिमायाः सुरक्षायाश्च कृते स्थातुं प्रतिबद्धता प्रकटिता।
Hindusthan Samachar / Divya Ranjan