भारतस्य चतुर्थ विमानं 11 टनभारमितां रक्षण सामग्रीम् आधृत्य नेपालं प्राप्नोत्
नव दिल्ली, 30 अगस्तमासः (हि.स.)। भारतस्य चतुर्थं विमानं रविवासरे राहतसामग्रीणां चतुर्थां खेपं नीत्वा काठमाण्डूनगरं सम्प्राप्तवान् तथा च आपद्ग्रस्तस्य नेपालदेशस्य जनानां साहाय्यार्थम् इमां सामग्रीं नेपालसर्वकाराय समर्पितवान्। विदेशमन्त्री डॉ. एस.
भारतीय विमान राहत सामग्री लेकर नेपाल पहुंचा।


नव दिल्ली, 30 अगस्तमासः (हि.स.)।

भारतस्य चतुर्थं विमानं रविवासरे राहतसामग्रीणां चतुर्थां खेपं नीत्वा काठमाण्डूनगरं सम्प्राप्तवान् तथा च आपद्ग्रस्तस्य नेपालदेशस्य जनानां साहाय्यार्थम् इमां सामग्रीं नेपालसर्वकाराय समर्पितवान्।

विदेशमन्त्री डॉ. एस. जयशङ्करः एक्स् इत्यत्र लिखितवान्, “एकादश टन् परिमितां राहतसामग्रीं नीत्वा भारतस्य चतुर्थं विमानं काठमाण्डूनगरं सम्प्राप्तम्। इदं विमानं नेपालदेशे प्रचलद्भ्यः उद्धारकार्येभ्यः राहतकार्येभ्यश्च साहाय्यार्थम् आवश्यकसामग्रीं तकनीकीक्षमतां च आनयत्।

अस्मिन् अन्वेषण-उद्धारकार्यक्रमाय उपकरणैः सह एकः सुरुङ्ग-तकनीकीदलः, डीएनए-विश्लेषणाय न्यायवैज्ञानिकविशेषज्ञानां दलं च अस्ति। कंबलानि, निद्रापुटकानि, त्रिपालाः, प्लास्टिकपत्राणि, स्वच्छतासामग्री-पुटकानि च राहतसामग्रीरूपेण समाविष्टानि सन्ति।”

उल्लेखनीयं यत् नेपालस्य रसुवा-जनपदे तदनन्तरं च समीपस्थेषु क्षेत्रेषु भोटेकोशी-नद्यां अगस्तमासस्य षड्विंशतितमे दिनाङ्के प्रातः अकस्मादेव अभवत् विनाशकारी बाढया अद्यावधि प्रायः सप्तशतचतुर्विंशतिः जनानां शवाः प्राप्ताः सन्ति तथा च शतशः जनाः लापताः सन्ति। लापतजनानां मध्ये विदेशीयनागरिकाः सुरक्षाकर्मिणश्च अपि सम्मिलिताः सन्ति। बाढया त्रिषु जनपदेषु महती विनाशलीला कृता अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani