Enter your Email Address to subscribe to our newsletters

जयपुरम्, ३० अगस्तमासः (हि.स.)। राजस्थान-फोटो-फेस्टिवलस्य अन्तर्गतम् आयोजितायाः ‘नज़र’ छायाचित्रण-चित्रकलाप्रदर्शिन्याः पञ्चमसंस्करणस्य पुरस्कारसमारोहः होटल-ग्राण्ड-सफारी इत्यत्र आयोजितः। विश्वछायाचित्रण-दिवसस्य अवसरे आयोजिते अस्मिन् समारोहे छायाचित्रणस्य चित्रकलायाश्च क्षेत्रे उत्कृष्टं कार्यं कृतवद्भ्यः प्रतिभागिभ्यः सम्मानं प्रदत्तम्।
अस्मिन् समारोहे ‘नज़र’ छायाचित्रण-पुरस्कारः चिन्मयकौरायै तथा चित्रकला-कारपुरस्कारः सुषमासिंहायै प्रदत्तः। तदतिरिक्तं पत्रकारिताक्षेत्रे जोधपुरतः शिवलालः तथा जयपुरतः ‘फर्स्ट इण्डिया’ इत्यस्य छायाचित्रपत्रकारः सुनीलशर्मा अपि सम्मानितौ। सर्वेभ्यः प्रतिभागिभ्यः पदकानि प्रमाणपत्राणि च प्रदाय सम्मानिताः।
कार्यक्रमस्य मुख्यातिथिः आईएएस नवीनजैनः आसीत्। तेन छायाचित्रकारेभ्यः कलाकारभ्यश्च छायाचित्रणसम्बद्धाः उपयोगिनः विचारा: प्रदत्ताः तथा स्वस्य छायाचित्रणयात्रायाः अनुभवाः अपि साझीकृताः। तेन प्रतिभागिनां कार्याणां प्रशंसा कुर्वता उक्तं यत् छायाचित्रणं केवलं चित्रग्रहणपर्यन्तं सीमितं नास्ति, अपि तु समाजं संस्कृतिं प्रकृतिं च द्रष्टुं समर्थं प्रभावशालीमाध्यमम् अस्ति।
प्रदर्शिन्याः निर्देशकः राघवगोयलः सर्वेषां प्रतिभागिनां अतिथीनां च प्रति कृतज्ञतां प्रकटितवान्। तेन अग्रिमवर्षे आयोज्य-मानस्य कार्यक्रमस्य तिथिरपि घोषितः।
आयोजकानुसारम् एतत् जयपुरस्य प्रमुखं छायाचित्रणकलामञ्चम् अस्ति, यस्मिन् चतुःशताधिकाः छायाचित्रकाराः कला-काराश्च भागं गृहीतवन्तः। प्रदर्शिन्यां अष्टशताधिकानि छायाचित्राणि कला-कृतयश्च प्रदर्शिताः। अस्यां राजस्थानेन सह देश-विदेशेभ्यः छायाचित्रकाराणां कला-काराणां च कृतयः सम्मिलिताः आसन्।
पुरस्कारसमारोहे होटल-ग्राण्ड-सफारी इत्यस्य स्वामी पवनगोयलः, निर्देशकः राघवगोयलः, विनीतजैनः, मोहितटेलरः, टीटूप्रिण्ट् इत्यस्मात् अंशुलतनवानी, जे.डी. माहेश्वरी, विष्णुशर्मा इत्यादयः अतिथयः उपस्थिताः आसन्। अतिथीनां स्वागतं संस्थापकया निर्देशिकया च रेणुका कुमावत्या कृतम्।
प्रदर्शिन्याः संरक्षिका रेणुका कुमावती सर्वेभ्यः प्रतिभागिभ्यः शुभकामनाः प्रदाय अवदत् यत् अग्रिमवर्षे कलाकाराणां छायाचित्रकाराणां च कृते किमपि नूतनं कर्तुं प्रयासः क्रियते, येन तेषां कलायै अधिकं श्रेष्ठं मञ्चं प्रोत्साहनं च प्राप्तुं शक्यते। सा अवदत् यत् देश-विदेशयोः सुन्दराणां छायाचित्राणां चित्रकृतिनां च जयपुरवासिभिः उत्तमः प्रतिसादः प्रदत्तः। ‘नज़र’ एतादृशं मञ्चम् अस्ति, यत्र छायाचित्रकारेभ्यः चित्रकलाकारभ्यश्च एकत्र स्वकीयां कलां प्रदर्शयितुं अवसरः प्राप्यते।
Hindusthan Samachar / Divya Ranjan