Enter your Email Address to subscribe to our newsletters

नवदिल्ली/ताशकंदम्, 30 अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी रविवासरे उज्बेकिस्तानस्य राजधानी ताश्कन्दनगरे एकस्मिन् विशेषे योगसत्रे भागं गृहीतवान्। अस्मिन् योगसत्रे उज्बेकिस्तानस्य 52 योगसाधकाः अपि सम्मिलिताः।
प्रधानमन्त्रिणा नरेन्द्रमोदिना सामाजिकमाध्यमे लिखितं यत्, “अस्मिन् वर्षस्य प्रारम्भे अहमदाबादनगरे आयोजितायां प्रथमायां विश्वयोगासनप्रतियोगितायां उज्बेकिस्तानः गौरवेण सहभागं कृतवान् आसीत्। अद्य कतिपये पदकविजेतारः अपि अत्र उपस्थिताः आसन्। ते भारतस्य तथा प्रतियोगितायाः अद्भुताः स्मृतयः नीत्वा प्रत्यागतवन्तः। योगस्य लोकप्रियतां वर्धयितुं कृतस्य कार्यस्य कृते अहं उज्बेकिस्तानयोगमहासंघस्य प्रशंसां करोमि।”
उल्लेखनीयं यत् प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे प्रातःकालात् उज्बेकिस्तानस्य किर्गिस्तानस्य च चतुर्दिवसीययात्रायाम् अस्ति। अस्यां यात्रायां सः उज्बेकिस्तानस्य राष्ट्रपतिना शावकत् मिर्जियोयेवेन सह व्यापारः निवेशः, डिजिटलसम्पर्कः, रक्षाक्षेत्रम् तथा ऊर्जाक्षेत्रे सहयोगं च अधिकं सुदृढं कर्तुं विषये चर्चां करिष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani