Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 30 अगस्तमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मूः सोमवासरे देहलीस्थितस्य राष्ट्रियफैशनप्रौद्योगिकीसंस्थानस्य अर्थात् निफ्ट् इत्यस्य संयुक्तदीक्षान्तसमारोहः 2026 इत्यस्मिन् कार्यक्रमे सहभागं करिष्यति। अस्मिन् अवसरे सर्वोच्चं संचयीग्रेड्-प्वाइन्ट्-औसतं अर्थात् सीजीपीए प्राप्तवन्तः उत्कृष्टछात्राः स्वर्णपदकैः सम्मानिताः भविष्यन्ति।
केन्द्रीयवस्त्रमन्त्रालयस्य अनुसारम् अस्मिन् समारोहे शैक्षणिकोत्कृष्टतां, सृजनात्मकतां, समर्पणं तथा विविधाः उपलब्धीः प्राप्तवन्तः स्नातकछात्राः सम्मानिताः भविष्यन्ति।
संयुक्तदीक्षान्तसमारोहोत्तरं परिसरोनुसारं पदवीवितरणसमारोहाः आयोजिताः भविष्यन्ति, यत्र स्नातकछात्राः औपचारिकरूपेण स्वकीयाः पदव्यः प्राप्स्यन्ति।
संयुक्तदीक्षान्तसमारोहः 2026 तादृशानां विद्यार्थिनां पीढ्याः उत्सवस्य अवसरः भविष्यति, ये विचारान् सम्भावनासु तथा सृजनात्मकतां प्रभावे परिणमयितुं शिक्षितवन्तः। संस्थानात् उत्तीर्णाः एते विद्यार्थी नूतनान् आख्यानान् निर्मातुं, सार्थकसमाधानानि सृजितुं तथा भारतस्य निरन्तरं विकसितस्य सृजनात्मकपरिदृश्यस्य योगदानं कर्तुं आत्मविश्वासं स्वसह नीत्वा अग्रे गमिष्यन्ति।
अस्मिन् अवसरे केन्द्रीयवस्त्रमन्त्री गिरिराजसिंहः, विशिष्टगणमान्यजनाः, शासकमण्डलस्य सदस्याः, वरिष्ठाधिकारिणः, संकायसदस्याः, विद्वांसः तथा देशस्य अष्टादश निफ्ट्-परिसराणां स्नातकछात्राः उपस्थिताः भविष्यन्ति।
उल्लेखनीयं यत् वस्त्रमन्त्रालयस्य अन्तर्गतं 1986 तमे वर्षे स्थापितं एनआईएफटी्-संस्थानं 2006 तमे वर्षे निर्मितेन एनआईएफटी्-अधिनियमेन शासितं वैधानिकसंस्थानम् अस्ति। वर्षेषु एतत् संस्थानं फैशनशिक्षायाः अग्रणीसंस्थानरूपेण विकसितम् अस्ति। एतत् पारम्परिककलाः शिल्पानि च, शैक्षणिकज्ञानम्, डिजाइन-नवाचारम्, प्रौद्योगिकीम्, सृजनात्मकचिन्तनम् तथा उद्योगेन सह सम्पर्कं च एकत्र आनयति।
---------------
Hindusthan Samachar / Dheeraj Maithani