Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 30 अगस्तमासः (हि.स.)।
राज्यसभायाः उपसभापतिः हरिवंशः तथा लोकसभायाः महासचिवः उत्पलकुमारसिंहः इत्यादयः अनेके सांसदाः रविवासरे संविधानसदनस्य केन्द्रीयकक्षे लोकसभायाः पूर्वाध्यक्षस्य राजस्थानस्य च पूर्वराज्यपालस्य सरदारहुकमसिंहस्य जन्मजयन्त्याः अवसरे तस्मै पुष्पाञ्जलिं समर्पितवन्तः।
उल्लेखनीयं यत् सरदारहुकमसिंहः सांसदः, न्यायविद्, समाजसुधारकः तथा सक्षमः प्रशासकश्च आसीत्। १९४८ तमस्य वर्षस्य अप्रैलमासे सः संविधानसभायै निर्वाचितः अभवत्। सः अन्तरिमसंसदः १९५०-१९५२ तथा प्रथमायाः, द्वितीयायाः, तृतीयायाश्च लोकसभायाः सदस्यः अपि आसीत्।
सरदारहुकमसिंहः १९५६ तमस्य वर्षस्य मार्चमासस्य २० दिनाङ्के लोकसभायाः उपाध्यक्षरूपेण निर्वाचितः। द्वितीयलोकसभायाम् अपि सः पुनः उपाध्यक्षरूपेण निर्वाचितः।
तृतीयलोकसभायां सरदारहुकमसिंहः सर्वसम्मत्या अध्यक्षरूपेण निर्वाचितः अभवत् तथा च १९६२ तमस्य वर्षस्य अप्रैलमासस्य १७ दिनाङ्कात् १९६७ तमस्य वर्षस्य मार्चमासस्य १६ दिनाङ्कपर्यन्तं सदनस्य अध्यक्षतां कृतवान्। ततः सः १९६७ तमस्य वर्षात् १९७२ तमस्य वर्षपर्यन्तं राजस्थानस्य राज्यपालः अभवत्।
---------------
Hindusthan Samachar / Dheeraj Maithani