Enter your Email Address to subscribe to our newsletters


नवदिल्ली, ३० अगस्तमासः (हि.स.)। देहलीविश्वविद्यालयस्य कलासंकायस्थिते वन्देमातरम्-सभागारे रविवासरे देववाण्याः संस्कृतस्य जयघोषः गुञ्जितः। दिल्ली-संस्कृत-अकादम्याः, कला-संस्कृति-भाषाविभागस्य (देहलीसर्वकारस्य) तथा संस्कृतभारत्याः (देहलीप्रान्तस्य) संयुक्ततत्त्वावधाने आयोजितस्य ‘संस्कृतमहोत्सवः-२०२६’ इत्यस्य अन्तर्गतं संस्कृतसप्ताहस्य समापनसमारोहः भव्ये गरिमामये च वातावरणे सम्पन्नः। महोत्सवे संस्कृतभाषायाः, भारतीयज्ञानपरम्परायाः, युवशक्तेः सांस्कृतिकचेतनायाश्च अद्भुतः सङ्गमः दृष्टः।
कार्यक्रमे संस्कृतभारत्याः अखिलभारतीय-सङ्गठनमन्त्री जयप्रकाशगौतमः मुख्यवक्तृरूपेण उपस्थितः आसीत्। समारोहस्य अध्यक्षता केन्द्रीयसंस्कृतविश्वविद्यालयस्य, नवदेहल्याः कुलपतिना प्रो. श्रीनिवासवरखेडी इत्यनेन कृता। संस्कृतभारत्याः उत्तरक्षेत्रीयमन्त्री कौशलकिशोरतिवारी तथा कमलानगरजनपदस्य अध्यक्षः धीरजकुमारः विशिष्टातिथिरूपेण उपस्थितौ आस्ताम्।
मुख्यवक्ता जयप्रकाशगौतमः संस्कृतं भारतस्य जीवन्तज्ञानपरम्परां वर्णयन् अवदत् यत् तस्याः संरक्षणाय संवर्धनाय च समाजस्य सक्रियसहभागिता आवश्यकी अस्ति। सः अवदत् यत् देशविदेशयोः आयोजितस्य संस्कृतसप्ताहस्य कार्यक्रमाणाम् अनुरूपं प्रत्येकं जनं स्वसामर्थ्यानुसारं संस्कृतसेवायै समयदानं कुर्यात्। तदैव सङ्गठनस्य शक्त्या संस्कृतं जनं जनं प्रति प्रापयितुं निर्धारितं लक्ष्यं प्राप्तुं शक्यते।
अध्यक्षीयोद्बोधने प्रो. श्रीनिवासवर्खेडी अवदत् यत् संस्कृतभारती युवानां ऊर्जां कार्यशक्तिं च सङ्गठयितुं कार्यं कुर्वत् सङ्गठनम् अस्ति। सः बालीद्वीपस्य उदाहरणं दत्त्वा अवदत् यत् तत्र अद्यापि ‘ॐ स्वस्ति अस्तु’ इत्यादीनि संस्कृतनिष्ठानि अभिवादनवाक्यानि प्रचलितानि सन्ति तथा दीपान्तरगुरुकुले संस्कृतसम्भाषणस्य परम्परा जीवन्ती अस्ति। अग्रिमजनगणनायां ‘मम भाषा संस्कृतम्’ इति सङ्कल्पेन भारतीयभाषा: प्रति जनजागरणस्य आह्वानं कुर्वन् सः दशकोटिनागरिकान् प्रति गमनस्य लक्ष्यं निर्धारितवान् तथा संस्कृतस्य पारम्परिकज्ञानं आधुनिकविज्ञानेन प्रौद्योगिक्या च सह योजयितुं आवश्यकतां प्रतिपादितवान्।
उत्तरक्षेत्रीयमन्त्री कौशलकिशोरः संस्कृतसप्ताहस्य विविधकार्यक्रमाणां प्रशंसां कुर्वन् अवदत् यत् एतादृशाः कार्यक्रमाः युवानः भाषया संस्कृत्या भारतीयज्ञानपरम्परया च सह संयोजयितुं प्रभावीमाध्यमानि सन्ति।
सप्ताहपर्यन्तं संस्कृतमयं जनजागरणाभियानम्
संस्कृतभारत्याः देहलीप्रान्तस्य प्रान्तसङ्गठनमन्त्री लविशकुमारः संस्कृतसप्ताहस्य अन्तर्गतं आयोजितानां कार्यक्रमाणां विस्तृतं विवरणं प्रस्तुतवान्। सः अवदत् यत् अस्मिन् अवधौ संस्कृतशोभायात्रा, गृहे-गृहे सम्पर्काभियानम्, ‘श्लोकं शृणुत, पुरस्कारं प्राप्नुत’, संस्कृत-स्वचित्रकेन्द्रम्, लघुचलच्चित्राणां लघुचलच्चित्रप्रतियोगिता, विद्वत्सम्मेलनं तथा प्रश्नमञ्चप्रतियोगिता इत्यादय: अनेके कार्यक्रमा: आयोजिता:। तत्रैव प्रान्तमन्त्री प्रो. रणजीतबेहेरा संस्कृतसप्ताहस्य प्रतिवेदनं प्रस्तुतवान्।
महोत्सवे संस्कृतेन भारतीयसंस्कृत्या च सम्बद्धाभिः विविधाभिः छटाभिः सुसज्जिताः मनोहारिण्यः सांस्कृतिकप्रस्तुतयः उपस्थितजनसमूहं मन्त्रमुग्धं कृतवत्यः। सङ्गीतस्य, नृत्यस्य सांस्कृतिकाभिव्यक्तिनां च माध्यमेन भारतीयसंस्कृतेः परम्परायाश्च समृद्धं दृश्यं प्रस्तुतम्।
मञ्चसञ्चालनं संस्कृतसप्ताहमहोत्सवस्य संयोजकेन दिव्यरञ्जनेन कृतम्। अस्मिन् अवसरे डॉ. देवकीनन्दनः, देहली-संस्कृत-अकादम्याः उपसचिवः सौरभकुमारमिश्रः, डॉ. दिनेशयादवः, अमितमिश्रः इत्यादयः अनेके विद्वांसः, संस्कृतप्रेमिणः, विद्यार्थिनः संस्कृतानुरागिणश्च उपस्थिताः आसन्।
---------------
Hindusthan Samachar / अंशु गुप्ता