Enter your Email Address to subscribe to our newsletters

चित्रकूटम्, 30 अगस्तमासः (हि.स.)।
धर्मनगरीचित्रकूटे शनिवासरे मन्दाकिनी नदी एतादृशं रौद्ररूपं प्रदर्शितवती यत् रामघाटतः हनुमानधारापर्यन्तं बहुषु क्षेत्रेषु विनाशस्य दृश्यं दृष्टिगोचरम् अभवत्। शताब्द्याः सर्वाधिकभीषणबाढरूपेण वर्णितया अस्य आपदया जनजीवनं पूर्णतया प्रभावितम् अभवत्। परिस्थितेः निरीक्षणाय मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः रविवासरे स्वयमेव चित्रकूटम् आगत्य बाढप्रभावितक्षेत्राणां निरीक्षणं कृतवान्।
मुख्यमन्त्री घटनास्थले गत्वा राहत-उद्धारकार्याणां विषये सूचनां प्राप्तवान्। ततः सः नगरपरिषदः द्वारा टीआईसीभवने निर्मितं बाढराहतशिविरम् आश्रयस्थलं च गतवान्। तत्र तेन प्रभावितैः जनैः सह मिलित्वा तेषां समस्याः श्रुताः तथा शुष्कभोजनसामग्री, भोजनं आवश्यकराहतसामग्रीश्च वितरिताः।
मुख्यमन्त्रिणा स्थले उपस्थितेभ्यः प्रशासनिकाधिकारिभ्यः, पुलिसकर्मिभ्यः तथा राहत-उद्धारदलस्य सदस्येभ्यः बाढस्थितेः विषये सूचना गृहीता। तेन अधिकारिभ्यः प्रभावितजनानां समीपं तत्कालं सर्वसम्भवसहायतां प्रापयितुं निर्देशाः दत्ताः। मुख्यमन्त्री अवदत् यत् जनानां सुरक्षितस्थानेषु निवासस्य व्यवस्थां कृत्वा भोजनस्य, शुद्धपेयजलस्य चिकित्सासुविधानां च व्यवस्थायां कापि न्यूनता न भवेत्।
मन्दाकिन्याः प्रचण्डप्रवाहे हनुमानधारायाः पुरातनः सेतुः अपि प्रवाहितः। मन्दाकिनीनद्यां आकस्मिकेन प्रचण्डेन जलप्रवाहेण हनुमानधारां प्रति गमनमार्गे निर्मितः ऐतिहासिकः पुरातनः सेतुः अपि भग्नः भूत्वा जलेन सह प्रवाहितः। बाढस्य जलं बहुषु आवासीयक्षेत्रेषु विपणिक्षेत्रेषु च प्रविष्टम्, येन जनाः महतीं कठिनताम् अनुभूतवन्तः। तथापि वर्षायाः अवसानानन्तरं मन्दाकिनीनद्याः जलस्तरः शनैः शनैः न्यूनः भवितुम् आरब्धः अस्ति। अनेन प्रशासनाय स्थानीयजनाय च किञ्चित् राहतिः प्राप्ता।
अतिवृष्टेः कारणात् सेमरावलस्य मन्दाकिनीनद्याश्च जलस्तरे तीव्रवृद्धिः अभवत्, येन चित्रकूटस्य बहुषु भागेषु बाढस्य स्थितिः उत्पन्ना। अनेकेषां जनानां गृहेषु जलं प्रविष्टम् तथा गृहसामग्री अपि क्षतिग्रस्ता अभवत्। प्रशासनस्य अनुसारं अद्यावधि बाढस्य कारणेन कस्यापि प्रकारस्य जनहान्याः सूचना न प्राप्ता। राहत-उद्धारकार्याणि निरन्तरं प्रचलन्ति तथा प्रभावितजनानां समीपम् आवश्यकसामग्री प्राप्यते।
मुख्यमन्त्री डॉ. मोहनयादवः अवदत् यत् बाढया पर्याप्तं क्षतिः अभवत् तथा प्रशासनस्य पक्षतः क्षतेः आकलनकार्यं प्रचलति। तेन उक्तं यत् सर्वे सम्बद्धाः अधिकारिणः घटनास्थले उपस्थिताः सन्ति तथा परिस्थितेः निरन्तरं निरीक्षणं क्रियते।
मुख्यमन्त्रिणा अधिकारिभ्यः निर्देशः दत्तः यत् बाढप्रभावितजनानां कृते भोजनस्य, पेयजलस्य, चिकित्सायाः सहितं सर्वाः आवश्यकव्यवस्थाः तत्कालं सुनिश्चिताः क्रियन्ताम्। तेन सह राहत-उद्धारकार्येषु कस्यापि स्तरे उपेक्षा न भवेत् इत्यपि निर्देशितम्।
Hindusthan Samachar / Dheeraj Maithani