भाजपादलेन जनकल्याणकारी योजनानां प्रचार-प्रसाराय 25 विजयरथाःप्रस्थापिताः
जयपुरम्, ३० अगस्तमासः (हि.स.)। भारतीयजनतापक्षस्य राजस्थानप्रदेशस्य पक्षतः भाजपाप्रदेशकार्यालयात् जनकल्याणकारीयोजनानां दलनीतीनां च व्यापकप्रचारप्रसाराय विजय-प्रचाररथाः रविवासरे प्रेषिताः। मुख्यमन्त्री भजनलालशर्मा, भाजपायाः प्रदेशाध्यक्षः मदनराठौड़ः,
भाजपा ने जनकल्याणकारी योजनाओं के प्रचार-प्रसार के लिए 25 विजय रथों को किया रवाना


जयपुरम्, ३० अगस्तमासः (हि.स.)। भारतीयजनतापक्षस्य राजस्थानप्रदेशस्य पक्षतः भाजपाप्रदेशकार्यालयात् जनकल्याणकारीयोजनानां दलनीतीनां च व्यापकप्रचारप्रसाराय विजय-प्रचाररथाः रविवासरे प्रेषिताः। मुख्यमन्त्री भजनलालशर्मा, भाजपायाः प्रदेशाध्यक्षः मदनराठौड़ः, प्रदेशमहामन्त्री संगठनः अजेयकुमारः तथा निकायनिर्वाचनस्य सहप्रभारी रोहनगुप्तः सहिताः जनप्रतिनिधयः प्रचाररथान् हरितध्वजं प्रदर्श्य प्रेषितवन्तः।

भाजपायाः प्रदेशाध्यक्षः मदनराठौड़ः अवदत् यत् प्रचाररथानां माध्यमेन केन्द्रसर्वकारस्य राज्यसर्वकारस्य च जनकल्याणकारीयोजनाः उपलब्धयश्च सामान्यजनानां समीपं प्रापयिष्यन्ते। प्रत्येकं लोकसभाक्षेत्रं प्रति एकः प्रचाररथः प्रेषयिष्यते। नगरीयनिकायक्षेत्रेषु अपि एते रथाः जनसम्पर्कस्य प्रचारप्रसारस्य च कार्यं करिष्यन्ति।

दलस्य पक्षतः २५ लोकसभाक्षेत्रेभ्यः प्रचाररथाः रविवासरे प्रेषिताः। भाजपाकार्यकर्तारः एतेषां प्रचाररथानां माध्यमेन सामान्यजनानां मध्ये गत्वा सर्वकारस्य जनकल्याणकारीयोजनानां विषये सूचनां प्रदास्यन्ति तथा दलस्य विचारधारायाः नीतिनां च व्यापकप्रचारप्रसारं करिष्यन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani