जन सुविधाशिविरे विधायको महिलाभ्यः योजनानां लाभं नेतुं विहितम् आह्वानम्
वाराणसी, ३० अगस्तमासः (हि.स.)। वाराणस्यां हरिश्चन्द्रबालिकान्तरमहाविद्यालये रविवासरे विभिन्नसर्वकारीयविभागानां योजनानां जनसुविधाशिबिरस्य आयोजनं कृतम्। जनसुविधाशिबिरे विधायकः डॉ. नीलकण्ठतिवारी क्षेत्रीयाभ्यः महिलाभ्यः सम्बोधयन् उक्तवान् यत् महिला-बा
महिलाओं से अपील करते विधायक डॉ नीलकंठ


वाराणसी, ३० अगस्तमासः (हि.स.)। वाराणस्यां हरिश्चन्द्रबालिकान्तरमहाविद्यालये रविवासरे विभिन्नसर्वकारीयविभागानां योजनानां जनसुविधाशिबिरस्य आयोजनं कृतम्। जनसुविधाशिबिरे विधायकः डॉ. नीलकण्ठतिवारी क्षेत्रीयाभ्यः महिलाभ्यः सम्बोधयन् उक्तवान् यत् महिला-बालविकासविभागसहितेषु विविधसर्वकारीयविभागेषु सञ्चाल्यमानानां योजनानां विषये जनानां सूचनाः प्रदीयन्ते। अतः जनाः योजनानां विषये ज्ञात्वा तेषां लाभं स्वीकुर्युः।

सः उक्तवान् यत् सर्वकारेण महिलानां कृते अनेकाः योजनाः सञ्चालिताः सन्ति। एतासां योजनानां लाभं प्राप्तुं महिलाभिः आवेदनपत्राणि पूरयित्वा स्वकीयः प्रयासः अवश्यं करणीयः।

शिबिरे नेत्रपरीक्षणाय आर.जे.शङ्कर-चिकित्सालयस्य चिकित्सकानां दलम् अपि उपस्थितम् आसीत्। चिकित्सकदलैः जनानां नेत्राणां परीक्षणं कृत्वा निःशुल्कानि चश्मानि वितरितानि। तेषु केचन जनाः निःशुल्कनेत्रशस्त्रक्रियायै आर.जे.शङ्कर-चिकित्सालयं प्रति प्रेषिताः।

एवमेव शिबिरे लाभार्थिभ्यः निःशुल्काः सिलाई-किट्-सामग्र्यः तथा पीएम-स्वनिधियोजनायाः धनादेशाः अपि वितरिताः।

---------------

Hindusthan Samachar / Dheeraj Maithani