Enter your Email Address to subscribe to our newsletters


लखनऊ, 30 अगस्तमासः (हि.स.)। केन्द्रीयरक्षामन्त्री तथा लखनऊस्य सांसदः राजनाथसिंहः मुख्यमन्त्री योगी आदित्यनाथश्च रविवासरे लखनऊछावन्याः दिलकुशा-लॉन-परिसरे 101 कोटिरूप्यकाणां व्ययेन निर्मीयमाणानां 14 विकासपरियोजनानां भूमिपूजनं कृतवन्तौ। अस्मिन् अवसरे रक्षामन्त्रिणा छावनीक्षेत्रस्य प्रमुखबाजाराणां आङ्ग्लनामानि परिवर्त्य स्वतन्त्रतासंग्रामसेनानीनां महानां च विभूतीनां नामभिः नामकरणस्य घोषणा कृता।
राजनाथसिंहेन उक्तं यत् बाजाराणां नामपरिवर्तनं केवलं औपचारिकता नास्ति, अपितु अस्य उद्देश्यं भाविपीढीं देशस्य महानां स्वतन्त्रतासंग्रामसेनानीनां विभूतीनां च जीवनात् प्रेरणां ग्रहीतुं प्रेरयितुम् अस्ति। तेन सूचितं यत् छावनीक्षेत्रस्य अनेकानां बाजाराणां नामकरणं वीराङ्गना ऊदा देवी, लोकमाता अहिल्याबाई होलकरः, पूर्वप्रधानमन्त्री अटलबिहारीवाजपेयी इत्यादीनां महानां व्यक्तित्वानां नाम्ना कृतम् अस्ति।
रक्षामन्त्रिणा उक्तं यत् छावन्यां प्रारभ्यमाणाः 14 परियोजनाः केवलं विकासकार्याणि न सन्ति, अपितु तासु बालानां शिक्षा, युवानां रोजगारः, स्वच्छपेयजलम्, महिलासशक्तीकरणं तथा ‘सर्वेषां सहयोगः, सर्वेषां विकासः’ इत्यस्य भावना अपि अन्तर्भवति। सः उक्तवान् यत् अधुना छावनीक्षेत्रस्य जनानां स्वकीयेषु आवासेषु आवश्यकपरिवर्तनानां निर्माणकार्याणां च अनुमतिः अपि प्रदीयते।
सः लखनऊनगरस्य तीव्रगत्या जायमानस्य विकासस्य श्रेयः मुख्यमन्त्रिणः योगी आदित्यनाथस्य सहयोगाय मार्गदर्शनाय च अददात्। राजनाथसिंहेन नगरे उत्तमजलापूर्तेः, शिक्षायाः, क्रीडायाः तथा बाढनियन्त्रणसम्बद्धानां परियोजनानाम् अपि उल्लेखः कृतः। सः उक्तवान् यत् उत्तरप्रदेशे अधुना विधिशासनं स्थापितम् अस्ति तथा अन्तरराष्ट्रीयमञ्चेषु भारतस्य गौरवं निरन्तरं वर्धते।
मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् 2017 वर्षात् पूर्वं उत्तरप्रदेशे विधिशासनं नासीत्। प्रदेशे अव्यवस्था, अभावः अराजकता च व्याप्ता आसीत्, किन्तु अधुना राज्यं ताभ्यः परिस्थितिभ्यः उन्नीय तीव्रगत्या विकासस्य दिशि अग्रे गच्छति।
मुख्यमन्त्रिणा लखनऊमेट्रोस्य द्वितीयचरणस्य कार्यारम्भस्य तथा उत्तरप्रदेशे पञ्च रक्षाप्रदेशनिर्माणगलियाराणां विकासस्य श्रेयः केन्द्रीयरक्षामन्त्रिणे राजनाथसिंहाय प्रदत्तम्। सः उक्तवान् यत् केन्द्रस्य प्रदेशस्य च सर्वकारयोः समन्वयेन लखनऊसहिते सम्पूर्णे उत्तरप्रदेशे विकासस्य गतिः तीव्रा अभवत्।
कार्यक्रमे उपमुख्यमन्त्री ब्रजेशपाठकः तथा राज्यमन्त्री स्वतन्त्रप्रभारः असीमअरुणः विशिष्टातिथिरूपेण उपस्थितौ आस्ताम्। पूर्वोपमुख्यमन्त्री दिनेशशर्मा, भारतीय-रक्षासम्पदा-सेवायाः महानिदेशिका शोभागुप्ता, मध्यकमाण्डस्य जनरल-ऑफिसर-कमाण्डिङ्ग-इन-चीफ् लेफ्टिनेन्ट् जनरल् अनिन्द्यसेनगुप्तः तथा रक्षासम्पदा मध्यकमाण्डस्य प्रधाननिदेशिका भावनासिंहः इत्यादयः अनेकाः जनप्रतिनिधयः अधिकारिणश्च अपि उपस्थिताः आसन्।------------------
Hindusthan Samachar / Dheeraj Maithani