Enter your Email Address to subscribe to our newsletters

योगी-सर्वकारः कृत्रिमबुद्धिमत्ताधारितेन वाणी-सहायकेन रोगिभ्यः प्रतिपुष्टिं ग्रहीष्यति
लखनऊ, ३० अगस्तमासः (हि.स.)। योगी-सर्वकारेण प्रदेशे स्वास्थ्यसेवासु प्रौद्योगिक्याः नवाचारस्य च प्रयोगस्य निरन्तरं प्रोत्साहनं क्रियते। अस्यैव क्रमस्य अन्तर्गतं मुख्यमन्त्रिणः योगी आदित्यनाथस्य निर्देशानुसारं नोडल-राज्य-स्वास्थ्य-संस्था ‘साचीज्’ इत्यनया प्रदेशे स्वास्थ्यसेवानां अधिकं सुधारयितुं रोगिणां अनुभवं मतं च महत्त्वपूर्णम् आधारं कृत्वा महत्त्वपूर्णं पदं स्वीकृतम् अस्ति। प्रदेशस्य उपमुख्यमन्त्री ब्रजेशपाठकः अवदत् यत् साचीज्-संस्थया आयुष्मान्-कार्डधारकाणां रोगिणां तेषां परिचारकाणां च कृते कृत्रिमबुद्धिमत्ताधारितः वाणी-सहायकः विकसितः क्रियते। अस्य माध्यमेन रोगिभ्यः दूरभाषेण प्रत्यक्षं तेषां चिकित्सायाः चिकित्सालये प्राप्तस्य अनुभवस्य च विषये सूचना ग्रहीष्यते।
दूरभाषेण रोगिभ्यः प्रत्यक्षं अनुभवः पृच्छ्यते
उपमुख्यमन्त्री ब्रजेशपाठकः अवदत् यत् मुख्यमन्त्रिणः योगिनः अभिप्रायानुसारं कृत्रिमबुद्धिमत्ता-आधारितस्य वाणी-सहायकस्य उद्देश्यं केवलं रोगिभ्यः प्रतिपुष्टिग्रहणं नास्ति, अपि तु तेषां प्रतिक्रियाणां प्रौद्योगिक्याः साहाय्येन विश्लेषणं कृत्वा तादृशीं सूचनां प्राप्तुं यत् यस्याः विषये समये एव कार्यवाही कर्तुं शक्यते। अनेन चिकित्सालयानां निरीक्षणे, सूचनानां समाधाने, परीक्षणे स्वास्थ्यसेवानां गुणवत्तायाः सुधारे च सहायता भविष्यति।
ते अवदन् यत् एआई-वाणी-सहायकस्य माध्यमेन चिकित्सां प्राप्तवद्भिः रोगिभिः सह दूरभाषेण सम्भाषणं कृत्वा तेषां अनुभवस्य विषये सूचना ग्रहीष्यते। रोगिणः प्रष्टुं शक्यते यत् तेन चिकित्सालये आयुष्मान्-योजनायाः अन्तर्गतं उपचारः प्राप्तः वा न वा। चिकित्सायाः समये तेन काचित् समस्या अनुभूता वा न वा, चिकित्सालये उपलब्धाः सेवाः कीदृश्यः आसन् तथा च चिकित्सालयस्य कर्मचारिणां व्यवहारः कीदृशः आसीत् इत्यपि ज्ञातुं शक्यते। योजनायाः अन्तर्गतं प्राप्तव्यस्य उपचारस्य कृते रोगिणा तस्य परिवारेण वा काचित् अनधिकृता राशिः न दत्ता वा इत्यपि ज्ञातुं शक्यते। चिकित्सायाः अनन्तरं रोगी कियत् सन्तुष्टः अस्ति, इत्यस्य सूचनामपि प्रतिपुष्टेः माध्यमेन प्राप्तुं शक्यते। एवं रोगिणः वाणी प्रत्यक्षतया स्वास्थ्यविभागं प्रति प्राप्स्यति तथा च तस्य अनुभवं आधारीकृत्य न्यूनतानां परिचयं सुलभं भविष्यति।
प्रतिपुष्ट्या कार्यवाहीयोग्याः विषयाः प्रकाशिष्यन्ते
साचीज-संस्थायाः मुख्यकार्यपालना-धिकारिणी अर्चना वर्मा अवदत् यत् अस्य प्रयत्नस्य उद्देश्यं रोगिणां प्रतिक्रियासु ते विषयाः अभिज्ञातुम् अस्ति, येषु अग्रे कार्यवाही आवश्यकाऽस्ति। कृत्रिमबुद्धिमत्ता-आधारितस्य विश्लेषणस्य माध्यमेन बहुसंख्यया प्राप्ताः प्रतिपुष्टयः व्यवस्थिताः कर्तुं शक्यन्ते। यदि कश्चित् रोगी उपचारस्य अप्राप्तेः, अनधिकृतशुल्कस्य, दुर्व्यवहारस्य अथवा अन्यस्य कस्यचित् समस्यायाः विषये सूचनां ददाति, तर्हि एतादृशाः विषयाः सम्बन्धित-सञ्चालन-दलानां समीपं प्रेषयितुं शक्यन्ते। अनेन शिकायतासु कार्यवाही कर्तुं चिकित्सालयानां निरीक्षणं च अधिकं प्रभावी कर्तुं सहायता भविष्यति। अनेन व्यवस्थया स्वास्थ्यसेवानां निरीक्षणं केवलं सांख्यिकीय-विवरणेषु सीमितं न भविष्यति, अपि तु रोगिणः वास्तविकः अनुभवोऽपि तस्मिन् समाविष्टः भविष्यति।
सा अवदत् यत् सम्प्रति सीमितसंख्याकानां रोगिणां समीपे मानवीय-दूरभाषसम्पर्कस्य माध्यमेन प्रतिपुष्टिः गृह्यते। अस्मिन् अधिकः समयः मानवसंसाधनं च अपेक्ष्यते। एआई-वाणी-सहायकस्य माध्यमेन बहुसंख्यकानां रोगिणां समीपं गत्वा तेभ्यः प्रतिपुष्टिं ग्रहीतुं व्यवस्था विकसित्यते। अनेन अल्पसमये अधिकेभ्यः रोगिभ्यः सूचना प्राप्तुं शक्यते। बहुसंख्यया प्राप्तानां प्रतिक्रियाणाम् आधारेण श्रेष्ठतरं दत्तांशं सज्जीकर्तुं शक्यते। अस्य दत्तांशस्य विश्लेषणं कृत्वा चिकित्सालयैः स्वास्थ्यसेवाभिश्च सम्बद्धानां समस्यानां परिचयं कर्तुं शक्यते।
रोगिणः अनुभवस्य स्वास्थ्यव्यवस्थायां अधिकं महत्त्वं प्राप्स्यति
साचीज्-संस्थायाः मुख्यकार्यपालना-धिकारिणी अवदत् यत् अस्याः पहलस्य उद्देश्यं केवलं लाभार्थिभ्यः उपचारस्य सुविधा प्रदातुं नास्ति, अपि तु एतत् सुनिश्चितं कर्तुम् अस्ति यत् तेभ्यः सम्यक्, सम्मानपूर्वकं गुणवत्तापूर्णं च स्वास्थ्यसेवां प्राप्नुयात्। रोगिणां प्रत्यक्षः अनुभवः स्वास्थ्यसेवानां गुणवत्तां ज्ञातुं महत्त्वपूर्णं माध्यमम् अस्ति। एआई-वाणी-सहायकस्य माध्यमेन प्राप्तस्य प्रतिपुष्टेः व्यवस्थितं विश्लेषणं कृत्वा आवश्यकां कार्यवाहीं अधिकं प्रभावी कर्तुं प्रयासः क्रियते।
Hindusthan Samachar / Divya Ranjan