Enter your Email Address to subscribe to our newsletters

प्रयागराजः, 30 अगस्तमासः (हि.स.)।
तीर्थराजप्रयागस्य सङ्गमतटे रविवासरे ब्रह्ममुहूर्ते गङ्गायमुनयोः पवित्रे जले स्नानं कारितम्। अस्मिन् अवसरे सङ्गमतटे विराजमानस्य बृहद्धनुमतः महाराजस्य अपि विधिविधानपूर्वकं पवित्रं स्नानं कारितम्। रविवासरे प्रातः प्रायः ३ वादनात् ४५ निमेषे सम्पन्नमिदं धार्मिकानुष्ठानं श्रद्धालुभिः भक्तिभावेन श्रद्धया च दृष्टम्। मन्दिरस्य मुख्यपुजारी महन्तबलवीरगिरिणा पूजापाठः कृतः।
मान्यता अस्ति यत् सङ्गमे गङ्गा, यमुना तथा अदृश्यसरस्वत्याः सङ्गमः भवति। अतः सङ्गमतटे बृहद्धनुमतः स्नानस्य धार्मिकदृष्ट्या विशेषं महत्त्वम् अस्ति। स्नानस्य अनन्तरं मन्दिरपरिसरे श्रद्धालुभिः बृहद्धनुमतः दर्शनं पूजनं च कृतम्। प्रातःकालस्य समये सङ्गमक्षेत्रे धार्मिकं वातावरणं व्याप्तम् आसीत्।
श्रद्धालुभिः गङ्गामातुः हनुमतः महाराजस्य च समीपे सुखस्य, समृद्धेः तथा परिवारस्य मङ्गलस्य कामना कृता। सङ्गमतटे सम्पन्नमिदं धार्मिकानुष्ठानं प्रयागराजस्य आध्यात्मिकपरम्परायाः श्रद्धायाश्च प्रतीकरूपेण वर्तते। बृहद्धनुमतः मन्दिरे दर्शनाय देशस्य विभिन्नेभ्यः भागेभ्यः श्रद्धालवः आगच्छन्ति। सङ्गमे स्नानं बृहद्धनुमतः दर्शनं च भक्ताः विशेषपुण्यप्रदं मन्यन्ते।
---------------
Hindusthan Samachar / Dheeraj Maithani