Enter your Email Address to subscribe to our newsletters


गोवंशाय स्वतंत्र मंत्रालयः, गोचर भूमिं मुक्तीकर्तुं निराश्रित गोवंशाय शरणस्थलीं निर्मातुं याचना
प्रयागराजः, 30 अगस्तमासः (हि.स.)। गोमाता राष्ट्रस्य राष्ट्रियसम्पद्त्वेन घोषितव्या। गोहत्यां निवारयितुं कठोरः विधिः निर्मातव्यः तथा गोवंशाय पृथक् मन्त्रालयः गठनीयः। एतानि वचनानि रविवासरे प्रयागराजस्य नैनीस्थिते सच्चाबाबा-आश्रमस्य अरैल्-परिसरे आयोजितायां विश्वहिन्दुपरिषदः सभायां विश्वहिन्दुपरिषदः केन्द्रीयमन्त्री अखिलभारतीयगोरक्षाप्रमुखः दिनेशोपाध्यायः उक्तवान्।
सः अवदत् यत् गोचरभूमिः अतिक्रमणात् मुक्तां कृत्वा निराश्रितगोवंशाय आश्रयस्थलीरूपेण विकसितव्या। पञ्चगव्यस्य गोआधारितस्य जैविककृषेः च कृते कृषकेभ्यः प्रशिक्षणं प्रदाय गोशालाः आत्मनिर्भराः करणीयाः। तदैव गोमातुः सुरक्षा सुनिश्चितुं शक्यते।
दिनेशोपाध्यायः अवदत् यत् गोशालाः केवलं संरक्षणकेन्द्ररूपेण न, अपितु आत्मनिर्भरसंस्थारूपेण विकसितव्याः। अस्य कृते पञ्चगव्योत्पादानां गोआधारितजैविककृषेः च प्रोत्साहनस्य आवश्यकता अस्ति। कृषकेभ्यः प्रशिक्षणं प्रदाय तान् गोआधारितकृष्या सह सम्बद्धान् करणीयम्, येन गोवंशस्य संरक्षणेन सह ग्रामीणस्तरे रोजगारस्य अवसराः अपि उत्पद्येरन्।
विश्वहिन्दुपरिषदः गोरक्षायाः प्रान्तमन्त्री लालमणितिवारी अवदत् यत् “यदा गौः रक्षिता भविष्यति, तदैव देशः सुरक्षितः भविष्यति।” सः उक्तवान् यत् प्रत्येकं जनं गोसेवां नारायणसेवारूपेण मत्वा गोवंशस्य सेवायै संरक्षणाय च अग्रे आगन्तव्यम्।
सभा सच्चाबाबा-आश्रमस्य अरैल्-परिसरे आयोजिताऽभवत्। अस्यां सभायां काशीप्रान्तस्य 22 जिलाभ्यः प्रायः 105 कार्यकर्तारः भागं गृहीतवन्तः। सभायां क्षेत्रगोशालासम्पर्कप्रमुखः जितेन्द्रः, विश्वहिन्दुपरिषदः काशीप्रान्तस्य उपाध्यक्षः गोरक्षायाः पालकाधिकारी च सुरेशअग्रवालः, प्रान्ताध्यक्षः भोलानाथः इत्यादयः अन्ये पदाधिकारिणः अपि स्वविचारान् प्रस्तुतवन्तः।
अस्मिन् अवसरे क्षेत्रगोरक्षाप्रमुखः प्रेमशङ्करः, महेन्द्रशुक्लः, लवलेशबजरङ्गी, अशोकः, विजयपाण्डेयः इत्यादयः काशीप्रान्तस्य 22 जिलाभ्यः आगताः प्रायः 105 कार्यकर्तारः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani