Enter your Email Address to subscribe to our newsletters

लखनऊ, 30 अगस्तमासः (हि. स.)। प्रदेशस्य राजकीयानां अनुसूचितजाति-छात्रावासानां व्यवस्थाः उत्तमाः कर्तुं समाजकल्याणविभागस्य राज्यमन्त्रिणा (स्वतन्त्रप्रभारः) असीमअरुणेन महत्त्वपूर्णं पदक्षेपं कृतम्। तेन प्रदेशस्य सर्वेषां २२३ राजकीयानां अनुसूचितजाति-छात्रावासानां रखरखावाय, मरम्मतकार्याय तथा आधारभूतसुविधानां सुदृढीकरणाय १२.४५ कोटिरूप्यकाणां बजट्-स्वीकृतिः प्रदत्ता।
राज्यमन्त्रिणा अधिकारिभ्यः निर्देशाः प्रदत्ताः यत् छात्रावासेषु रखरखावस्य मरम्मतकार्यस्य च सर्वाणि कार्याणि गुणवत्तापूर्वकं निर्धारितसमयसीमायाः अन्तर्गतं च पूर्णानि कारयन्तु।
छात्रावासेषु विद्यार्थिनां क्षमतायाः आधारेण रखरखावाय मरम्मतकार्याय च धनराशिः प्रदास्यते। अस्य अन्तर्गतं पञ्चाशत् विद्यार्थिनां क्षमतायुक्तेभ्यः छात्रावासेभ्यः प्रतिछात्रावासं पञ्चलक्षरूप्यकाणि यावत् धनराशिः उपलब्धा कारयिष्यते।
आधारभूतसुविधासु विशेषं ध्यानम्
स्वीकृतेन बजटेन पेयजलव्यवस्था, विद्युत्-उपकरणानां मरम्मतं सुधारश्च, शौचालयानां मरम्मतं, रङ्गरोगणं तथा सुरक्षा-स्वच्छताभ्यां सम्बद्धाः आवश्यकाः सुविधाः सुदृढाः करिष्यन्ते। अस्य उद्देश्यं विद्यार्थिभ्यः स्वच्छं सुरक्षितं अध्ययनाय अनुकूलं च आवासीयवातावरणं प्रदातुम् अस्ति।
राज्यमन्त्री असीमअरुणः उक्तवान् यत् प्रदेशसर्वकारः अनुसूचितजातीनां विद्यार्थिभ्यः गुणवत्तापूर्णशिक्षया सह उत्तमाः सम्मानजनकाश्च आवासीयसुविधाः प्रदातुं प्रतिबद्धः अस्ति।
सः उक्तवान्, “छात्रावासाः केवलं निवासस्थानानि न, अपितु विद्यार्थिनां भविष्यनिर्माणस्य केन्द्राणि सन्ति। अस्य बजट्-स्वीकृतेः माध्यमेन सर्वेषां २२३ छात्रावासानां व्यवस्थासु व्यापकः सुधारः भविष्यति।”
--------------
Hindusthan Samachar / Dheeraj Maithani