सन्तरविदासस्य ६५०तमजयन्त्यवसरे समरसतायाः सन्देशः गुञ्जितः, ग्रामं ग्रामं प्राप्स्यति पवित्रा मृत्तिका
हरिद्वारम्, ३० अगस्तमासः (हि.स.)। सन्तशिरोमणेः गुरुरविदासमहाराजस्य ६५०तमजयन्त्यवसरे भाजपाहरिद्वार-जनपदस्य पक्षतः बहादराबादे समरसता-सङ्कल्पाभियानस्य अन्तर्गतं कलश-वितरणकार्यक्रमः आयोजितः। कार्यक्रमे सन्तरविदासस्य जन्मभूमेः आनीता पवित्रा मृत्तिका कलश
कलश वितरण कार्यक्रम


हरिद्वारम्, ३० अगस्तमासः (हि.स.)। सन्तशिरोमणेः गुरुरविदासमहाराजस्य ६५०तमजयन्त्यवसरे भाजपाहरिद्वार-जनपदस्य पक्षतः बहादराबादे समरसता-सङ्कल्पाभियानस्य अन्तर्गतं कलश-वितरणकार्यक्रमः आयोजितः। कार्यक्रमे सन्तरविदासस्य जन्मभूमेः आनीता पवित्रा मृत्तिका कलशानां माध्यमेन ग्रामं ग्रामं गृहं गृहं च प्रापयितुं सङ्कल्पः कृतः।

कार्यक्रमे अनुसूचितजातिमोर्चायाः प्रदेशा-ध्यक्षः बलबीरघुनियालः, राज्यमन्त्री डॉ. जयपालसिंहचौहानः राज्यमन्त्री सुरेन्द्र-सिंहमोगा च उपस्थिताः आसन्। अध्यक्षतां भाजपाजनपदाध्यक्षः आशुतोष-शर्मा अकरोत्।

बलबीरघुनियालः अवदत् यत् सन्त-रविदासेन समाजाय समानतायाः भ्रातृत्वस्य सामाजिकसमरसतायाश्च सन्देशः प्रदत्तः। तस्य जन्मभूमेः पवित्रमृत्तिकां प्रत्येकं गृहं प्रति प्रापयितुं सर्वेषां दायित्वम् अस्ति। सः अवदत् यत् निर्धनान् वञ्चितवर्गीयान् च विकासस्य मुख्यधारायां संयोजयितुं सर्वकारः निरन्तरं कार्यं करोति।

भाजपाजनपदाध्यक्षः आशुतोषशर्मा अवदत् यत् सामाजिकसमरसता भाजपादलस्य सङ्कल्पः अस्ति। प्रधानमन्त्री नरेन्द्रमोदिनः चिन्तनं समाजस्य अन्तिम-जनस्य विकासे केन्द्रितम् अस्ति। सः जनान् कलशयात्रायां बहुसंख्यया सम्मिलितुं आह्वानं कृतवान्।

राज्यमन्त्री डॉ. जयपालसिंहचौहानः अवदत् यत् सर्वकारः सन्तानाम् आदर्शेभ्यः प्रेरणां प्राप्य कार्यं करोति। सन्तरविदासेन सामाजिकभेदभावस्य उन्मूलनस्य सनातनमूल्यानां सुदृढीकरणस्य च सन्देशः प्रदत्तः।

प्रदेशोपाध्यक्षः रविन्द्रवाल्मीकिः अवदत् यत् कलशवितरणकार्यक्रमः सामाजिक-समरसतायाः प्रतीकम् अस्ति। महामन्त्री विनोदलक्खा अवदत् यत् अनेन प्रयासेन जातिगतभेदभावस्य समाप्तौ परस्परभ्रातृत्वस्य सुदृढीकरणे च सहायता भविष्यति।

कार्यक्रमे भूपसिंहः, सुबोधराकेशः, मनोजगौतमः, ब्रजराणी, प्रतापप्रधानः, अश्वनीकाम्बोजः, शिवमचौहानः इत्यादयः बहुसंख्यकाः भाजपाकार्यकर्तारः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan